________________
४२
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ||३९||
Jain Education International
[सिद्धे "येवमाः नैः स्तात् तॉऽऽम् रायन्नखमण्ड ली । प्रत्यूहशल् अंभ ! "प्लोषेदी "प्रदीपांऽऽकुरायते ! ||३९ ॥ ]
3
[ १ सिद्ध 1 योगीन्द्र ! -संबोधनैकवचनम् । २ या + ई = ये + व् +अर्ध+ मायेवर्धमाः प्रथमान्तम् अनेन 'व्या' इति वर्णः संजातः । ३ षष्ठी । ४ क्रियापदम् । ५ त+आम्= ताम् प्रथमेकवचनम् । ६ रै+अङग्=रायङ्ग-राय त् + नख+मण्ड = रायन्नखमण्ड ! संबोधनैकवचनम् । ७ लीः -ली-प्रथमान्तम् लकारसूचकम् । पूर्वोक्तेन 'व्या' शब्देन 'ल' इत्यस्य संयोजने 'व्याल' इति शब्दो निष्पन्नः श्रीपार्श्वजि - नलाञ्छनरूपस्य व्यालस्य सूचकः । विसर्गो न गण्यः । ८ प्रत्यूह + शत्रू = प्रत्यूहशडु = प्रत्यूहशल् प्रथमान्तम् । ९ अ+भ=अभ ! संबोधनम् । १० प्लोष + ईति =प्लोषेति + णिज्-प्लोषेत्+इ+ई=प्लोषेदीः प्रथमान्तम् । ११ प्रदीप ! संबोधनम् । १२ अ + अङ्क +उरस् = आङ्कुराः प्रथमैकवचनम् । अनेन 'अङ्क' शब्दो निष्पद्यते ततः व्याल+अङ्क = ' व्यालाङ्क' इति पदम् श्रीपार्श्वजिनसूचकम् । १३ अ + ति=अतिः तस्य संबोधनैकवचनम् अते ! । अङकुरास्+अते अत्र सस्य त्वे रस्य च यत्वे आङ्कुरायते । ] व्याख्या - हे सिद्ध ! जितेन्द्रियत्वाद् योगीन्द्र ! | अभ नीलवर्णत्वात्, कृष्णनीलयोरैक्यात्, अवद् विष्णुवद् भाति " क्वचित् " [५ । १ । १७१ ] डे अभ स्तस्य सं० । तथा हे प्रदीप ! प्रकाशकत्वात् प्रदीपसदृश ! । हे अते ! न विद्यते तिर्गमनं यस्य स अतिस्तस्य सं० । हे रायन्नखमण्ड ! 'रै' शब्दोऽव्ययो दीप्त्यर्थः, रै दीप्तिम् अङ्गन्ति गच्छन्ति क्विपि रायगो दीप्तिमन्तो ये नखास्तैर्मण्डयति भूषयति नान् इत्यणि रायन्नखमण्डस्तस्य सं० । 'रायङ्ग्' इत्यत्र पदस्य [२ । १ । ८९] इति गोपे, ' निमित्ताभावे ० ' इति न्यायेन नैत्वाभावे नकारान्तत्वम् | त्वं नः अस्माकं प्रत्यूहान् विघ्नान् 'कष शिष जष झष' [ ५१८] पठितस्य हिंसार्थस्य 'शष' धातोः शपति हिनस्ति क्विपि 'घुटस्तृतीयः ' [२ । १ । ७६ ] इति षस्य डत्वे ड-लयोरैक्याल्लत्वे प्रत्यूहशल् विघ्नहन्ता स्ताद् भव इति सम्बन्धः । नामविशेषमाह-त्वं किं० या इतिवर्ण ईयते गच्छति क्विपि येः ईदृशो वकारः अर्धे अंशे यस्य स येवर्धः, ईदृशो मा वाचको यस्य स येवर्धमाः । एतावता 'व्या' इति सिद्धम् । पुनः किं० लकारमिच्छतीति क्यनि " क्यनि” [ ४ । ३ । ११२] इति ईकारे क्विपि " य्वोः ध्वय्० [ ४ । ४ । १२१] इति यलोपे लीः । एतावता 'व्याल' इति सिद्धम् तथा अकारण युक्तम् अङ्क इति अक्षरम् उरो अग्रे यस्य स आङ्कुराः । अत्र “घुटस्तृतीयः”
""
""
१ " निमित्ताभावे नैमित्तिकस्यापि अभावः " इति न्यायः हेमहंसीये न्यायसंग्रहे २९| 'अगु' धातोः उदितः 'न्’आगमे 'अन्ग्' ततः गनिमित्तकः नस्य ङकारः यदा च गकारस्य लोपः तदा तन्निमितकः '' अपि निवृत्तः ततः अन् इति स्थितम् इति भावः । २ छत्वाभावे इति उचित्तम् ।
97
For Private & Personal Use Only
www.jainelibrary.org