________________
सूचकम् । ४ ता+अत्ता+अस तात्तास् प्रथमान्तम् । ५ म्+राम्राः इदं पदम् 'म्'सूचकम् । ६ इ+अङ्ग-यङ्ग् गकारलोपे यन् इति । इदं पदं 'इ'कारसूचकम् एवम् न्+ए+म्+इ एतेषां संयोगे 'नेमि' इति नाम श्रीनेमिनाथ जिनसूचकं जातम् ७ 'न' इत्यनेन नः-अस्माकम् इत्यर्थो बोध्यः । अर्थात् अयं नेमिनाथो जिनः अस्माकं सिद्धः-प्रसिद्ध इति। अत्र 'स्तात्' इति क्रिया अध्याहार्या । ८ प्रथमान्तम्। ९ प्रति-ऊह-शलभः प्रथमान्तम् विसर्गस्य अगणने 'प्रत्यूहशलभ' इति शेयम् । १० प्लोषे सप्तम्या एकवचनम् । ११ दीप्रत् प्रथमाया एकवचनम् । १२ ई+प+अङ्कुर+आयत
पाछकरायत' अस्य सप्तम्या एकवचनम -अत्र ग्रन्थकारः 'आयति'शब्द निर्दिष्टवान् तस्य त सातम्या एकवचने 'आयतौ' स्यात् अत्र तु 'आयते' इति अभीष्टम् अतः अत्र 'आयति'स्थाने 'आयत'शब्दस्य विस्तारवाचकस्य सप्तम्या एकवचनं बोध्यम् ।।
___ व्याख्या-'न्' कारेण असति शोभते क्विपि नस्तस्य सं० हे नः ! तथा एकारं 'वरण ईप्सायाम्' [१९०८] इति वरयति ईप्सति क्विपि एवर् तस्य सं० हे एवर् । एतावता 'ने' इति सिद्धम् । तथा म्कारं 'रांक दाने' [१०६९] इति परमते आदानार्थात् राति आदत्ते क्विपि म्राः, तस्य सं० हे. म्राः ! । तथा इकारम् 'अगु गतौ' [८३] इति अङ्गति क्विपि “पदस्य" [२ । १ । ८९] इति गलोपे यन् । एतावता नेमिः श्रीअरिष्टनेमिस्तस्य सं० हे नेमे ! त्वं सिद्धः प्रसिद्धो 'न ख' इति अत्र श्लेषाद् विसर्गलोपे नः अस्माकं स्ताद्-भव-इति क्रिया । त्वं किं० ता लक्ष्मीः अत्ता माता यस्य स तातः कामः, तम् अस्यति क्षिपति क्विपि तात्ताः । पुनस्त्वं किं० खं झानम् , तस्य मण्डलं समूहः स विद्यते यस्य स " अतोऽनेकस्वरात्" [७ । २ । ६] इनि खमण्डली। पुनः किं० प्रपूर्वात् 'तयि गयि रक्षणे च' [७९७] इति चानुकृष्टगत्यर्थात्-गत्यर्थानां ज्ञानार्थत्वात्-तयतेः क्तौ "वोः प्वय्०" [४ । ४ । १२१] इति यलोपे, परमते अल्लोपे प्रत्तिर्ज्ञानम् , अहो विचारः, शं सुखम् , द्वन्द्वे तानि करोति णिजि "त्रन्त्यस्वरादेः" [७ । ४ ४३] इत्यन्त्यस्वरादिलोपे, अचि प्रत्यूहेशलभा प्राप्तिर्यस्य स प्रत्यूहश लभः प्रलेषाद् विसर्गलोपः । पुनः किं. “अग्नौ वमिर्दीप्रः" [१६९] शेषवचनात् दीप्र इवाचरति इति विपि धातुत्वे विपि, "हस्वैस्य त् पिति" [४ । ४ । ११३] इति तागमे दीप्रत् अग्निवदा चरत् । कस्मिन् ? प्लोषे विनाशे । कस्याः ? ई लक्ष्मीम् । पैं ओवै शोषणे ' [४७-४८] इत्यतः पायति शोषयति "आतो डः०" [५ । १ ७६] इति डे . ईपो यो ‘आ विधातरि मन्मथे' [ ] इत्यनेकार्थवचनात् आ कामः स एव योऽङ्गुरस्तस्यायतिर्विस्तारः, तत्र ईपाङ्कुरायते ॥३८॥
१ प्रत्यूहश' 'इति' 'अच्'प्रत्ययान्तं 'लभा' इत्यस्य विशेषणम् अतः अत्र प्रत्यूहशा-ज्ञानविवारसुबकरी-लभा इति उचितम् । २ "ह्रस्वस्य तः पित्कृति" इतिरूपं सूत्रम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org