________________
४०
एतावता नमिः श्रीनमिजिनः । सिद्धा शाश्वती चासो ई शोभा च सिद्धे तया सिद्धया स्वाभाविकशरीरकान्त्या अकु अनीषद् बहुर्यो "रो ध्वनौ तीक्ष्णे वैश्वानरे" [ ] इत्येकाक्षरवचनात् रो वैश्वानरस्तद्वदाचरति इति क्यनि 'दीर्घश्च्चि० " [४।३।१०८] इति दीर्घ अङ्कुरायते अनल्पवैश्वानरवदाचरति । कस्मिन् ? प्रत्यूहशलभप्लोषे प्रत्यूहिंसा सैव 'हः हस्ते दारुणि "[ ] इत्येकाक्षरवचनात् हानि काष्ठानि शरा बाणाः, तृणविशेषो वा, तत्र भाति “क्वचित्" [५।१११७१] डे प्रत्यूहशलभो यो प्लोषो विनाशस्तस्मिन् । सिद्वया किम्भूतया ? दीपो दीपनशीलो यो प्लोषो विनाशस्तस्मिन् सिद्धया । किम्भूतया ? दीप्रो दीपनशीलो यो दीपस्तद्वदाचरति क्यङि क्विपि तृतीयाटायां "लुगातोऽनापः" [२।१।१०७] इत्यालोपे दीप्रदीपा प्रदोपवत् प्रकाशिकयेत्यर्थः । जिनः किं० 'अट्टि हिंसाऽतिक्रमयोः '[ ६७४] इति हिंसाऽर्थादट्टेः क्विपि “पदस्य" [२।१।८९] इति टलोपे अत् भावे तलि अत्ता हिंसा सैव आमो रोगस्तं कुर्वन्ति.णिजि क्विपि अत्तामो हिसकाः त एव ये "राः स्वर्णे जलदे धने" [ ] इत्यनेकार्थवचनात् रायो मेघास्तेषु "अन्नः आत्मा वायुः"[उणादि-सू० २५८]इति उणादिवचनात् अन्नं वायुमाचष्टे णिजि "त्रन्त्यस्वरादेः" [७।४। ४३] इति लोपे क्विपि नामत्वे सौ “दीर्घङी०" [१।४।४५] इति तेल्लोपे, "नाम्नो नोऽनह्नः" [२।१।९१] इति नलोपे अत्ताम्रायन् हिंसकजनमयमेघविषये वायुमाचक्षाणः । यथा वायुर्मेघे प्रतिकूलः, तथा त्वमपि हिंसकजने इत्यर्थः। तथा खः सूर्यः तस्माद् भवा भा अपि खस्तस्य मण्डलम् भामण्डलम् तद् विद्यते यस्य स “अतोऽनेकस्वरात्" [७२।६] इति खमण्डली पश्चाद् विशेषणसमासे अत्ताम्रायन्नखमण्डली । सन्धिसूत्राणि सुगमानीत्युपेक्षितानि ॥ ३७॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥३८॥ [सिद्धयेवर् ! धमानस् ! ताऽत्ता म्रा ! यन् नै खमण्डली ।
प्रेत्यह-शलभ "प्लोषे दीद् ईपाङ्करायते ॥ ३८॥ [१ सिद्धः इति प्रथमान्तम् । ततः ‘एवर्' इति पदस्य संयोगे रस्य यत्वे च सिद्धयेवर, ततश्च 'धमानः' इत्यस्य संयोगे सिद्धये वर्धमानः इति ज्ञेयम् । अत्र 'एवर् इति पदम् एकारसू अत्र ग्रन्थकारः 'धमाः' इति पदं न साधितवान् “ध-धिषणा, मा-लक्ष्मीः ताभ्याम् असति शोभते यः सः धमाः ' इत्येवंरीत्या 'धमाः' इति पदं साध्यम् । ३ 'नः !' इति संबोधनम् नकार१ उणादिसूत्रे तु "अत्नः आत्मा वायुः मेघः' इत्येवम् 'अत्' धातो 'अत्न' शब्दः 'त्'युक्तो निर्दिष्टः न तु 'अन्न' शब्दो द्विनकारयुक्तः । पाठान्तरेऽपि 'अत्नम्' इत्येवम् 'त्' युक्तस्यैव पाठः । अनेन ग्रन्थकारेण 'अत्न' इति पदम् 'अन्न' इत्येवं पठितं संभवेत् अत एव तेन अत्र उणादिसाक्ष्यं सूचितम् । २ तस्य लोपे तल्लोपे अर्थात् सिप्रत्ययस्य लोपे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org