Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 89
________________ अङ्कुरः प्ररोहः तस्मै दीपाङ्कुराय तेजःप्ररोहाय ते तव 'भवतु'इति क्रियाशेषः । सिद्धः किं० 'इण्क् गतौ' [१०७५] एति जानाति "मन्-वन् क्वनिप्." [५।१।१४७] इति वनि एवानो विचक्षणास्तेषु ऋद्धः समृद्धो 'मानि(न)ण पूजायाम्' [१९६९] इत्यतो घनि मानः पूजा यस्य स एवर्धमानः । पुनः किं० "तस्तु तस्करे" [] इत्येकाक्षरवचनात् ताश्चौराः तान् अत्ति भक्षयति तृचि तात्ता चौरान्तकः-इत्यर्थः-सेवकानां तेभ्यो रक्षकत्वात् । पुनः किं० न म्लायन् न म्लानीभवन्नित्यर्थः। यतः खं ज्ञानम्, तेन मण्डलं बिम्ब विद्यते यस्य स मण्डली. सूर्यः स इव -यथा सूर्यो विश्वदृश्वा तथा ज्ञानेनायमपि । पुनः किं० प्रत्यूहा विघ्नाः तान् ‘शठ कैतवे च' [२२२] इति चानुकृष्टहिंसाऽर्थात् शठेः शठति हिनस्ति क्विपि प्रत्यूहशल ध्यातृणां विघ्नहर इत्यर्थः । ते किं० अः कृष्णस्तस्माद् भवति “क्वचित्" [५।१।१७१] डे अभः कामः तस्मिन् प्रकृष्टः उः ईश्वरः तस्य अभप्लोः श्लेषाद् विसर्गलोपः । यथा ईश्वरेण कामो दग्धस्तथाऽनेनापीत्यर्थः ॥५४॥ इति वृत्तार्थद्वयेन सिद्धं वर्णयित्वा क्रमागतं तृतीयपरमेष्ठिनम् आचार्य वर्णयति तथाहि सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीमाङ्करायते ॥५५॥ ['सिद्ध ! ये ! वर्ष ! मानः स्तात ताऽऽम्रार्यन्न ! खमण्डली । "प्रत्यूहशलभ ! "मोषेदीमदीपाङ्करा "यते ॥५५॥] [१ स+इद्ध-सिद्ध ! संबोधनम् । अनया 'स+इद्ध' इति व्युत्पत्त्या 'स्' सूचितः । २ इ+ए -ये एकारान्तं संबोधनम् अनेन 'इ'कारः सूचितः । ३ ऊ+अय-वय् । +धम्र्ध, वय+र्ध इत्यनयोः सन्धौ वर्ध ! संबोधनम् । अत्र 'वय'पदेन 'ऊ'कारः सूचितः तथा 'ध'पदेन 'र' सूचनम् । एवं च 'स+++इ' इत्येतेषां वर्णानां सयोगे 'सूरि' इति पदं निष्पादितम् । ४ म+अस्-माः प्रथमान्तम् । ५ नः षष्ठी । ६ 'स्तात्' इति क्रियापदम् । ७ त+आम्ला-ताम् प्रथमान्तम् । ८ र+आयत्-राय-रायन् संबोधनम् । अत्र ग्रन्थकारः 'न'पदसाधनं विस्मृतवान् तच्च संविद्-वाचक'न' पदेन पूरणीयम् ततः 'ताम्रयन्नख' इति ज्ञेयम् । ९ खम डल+णिन् खमण्डली प्रथमान्तम्। १० प्र+दय+ति-प्रत्ति+ऊ+ह+श+लभा प्रत्यूहशलभ! संबोधनम् । ११ प्र+उषा+ईप्रोषे+दीप्रदीपाङ्कुर+अस= प्रोषेदीप्रदीपाकुराः-प्रथमान्तम् । अत्र 'प्रोषे' इत्यस्य 'प्लोषे' बोध्यम्। १२ यते सप्तम्या एकवचनम् । ] व्याख्या-'स्' कारेण इद्धो दीप्तस्तस्य सं० हे सिद्ध ! एतावता स् इति सिद्धम् । तथा ऊकारम् 'अयि गतौ' [७९०] इत्यतो अयते गच्छति विचि “य्वोः प्वय०" [४।४।१२१] इति यलोपे वः । विचि तु व्यञ्जनकार्यानित्यत्वे पश्चाद् घोषवात १-अत्र ईदृशः पाठः समुचितः-" य्वोः प्वय्०” [४।४।१२१] इति विचि व्यञ्जनकार्या:नित्यत्वे यलोपो न जातः किन्तु घोषवति परे ( अर्थात् 'वय+धु' इति अवस्थायाम् ) “व्योः" [१1३।२३] इति यलोपे वः, एतावता 'सूः' इति सिद्धम् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148