Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 85
________________ विसालोपः । कि० नखरेणिः ? ताम्रा रक्तानुरागिणी या आ लक्ष्मी-दीप्त्यादिका ताम् आयच्छते विस्तारयतीति विपि “गमां क्यो" [४।२।५८] इति मलोपे "हस्वस्य तः पित्०" [४।४।११३] इति तोऽन्ते ताम्रायत् । पुनः ता. दीप्यते इत्येवंशीलः "स्म्य जस-हिंस-दीप - कम्प-कम-नमो रः" [५।२१७९] इति रे दीप्रो दीफ्नशीलो यो दीपः प्रदीपस्तस्याङ्कुरः प्ररोहस्तद्वदसति शोभते किपि दीप्रदीपाकुराः । अत्र पादपूरणे अकारे अग्रे सति "रोयः" [१।३।२६] इति यत्वे कुराय इति रूपसिद्धिः । ते तव कथं० "वर्धमानो वीरजिने स्वस्तिकैरण्ड-विष्णुषु" हैम० अनेकार्थसं० चतुःस्वरका श्लो० १५६१] इति अनेकार्थवचनाद् वर्धमानस्तद्वदाचरति "क्य" [३।४।२६] इति क्यङ्प्रत्यये "दीर्घरिच्व०" [४।३।१०८] इति दीर्धं वर्धमानायते इति किपि “य्वोः प्वय०"[४।४।१२१] इति यलोपे पश्चात् षष्ठयां "लुगातोऽनापः" [२।१।१०७] इत्यालोपे वर्धमानः स्वस्तिकवत् त्रिजगतां मङ्गलहेतुः-इत्यर्थः ॥५०॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥५१॥ 'सिद्धयेवैर्धमा नस्ताऽऽत्ताऽऽम् रॉयन् ने खम् अण्डली । 'प्रत्यूहशल् ! अभप्लोऽषेद् ईमदीपाङ्कुराय ते" ॥५१॥ [ १ 'सिद्धे' इति 'सिद्' इत्यस्य चतुर्थ्या एकवचने सिद्धे। २ आ+ई+वन्= एवा+ऋद्ध एवर्ध। मान-मान् , एवर्ध+मान्। एवर्धमा-प्रथमैकवचनम् । सिद्धे+एवर्धमा-सिद्धयेवर्धमा । ३ नस्+ता -नस्ता+अत्ता+आमनस्ताऽऽत्ताम्-प्रथमैकवचनम्। ४ रै+अतृ-रायन् । सिद्धयेवर्धमा+नस्तात्सिद्धयेवर्धमानस्तात् । ५ न निषेधवाची । ६ खम् द्वितीयैकवचनम् 'रायन्' इत्यस्य कर्म । ७अ+अ +लडूडल+ई अण्डलीः खम्+अण्डली-खमण्डली । ०ताम्+रायन्+न+खमण्डली-ताम्रायन्नखमण्डली । ८ प्रत्यूह+शल-प्रत्यूहशल संबोधनैकवचनम् । अभिप्लु+ड अभप्ल:-प्रथमैकवचनम् अभप्लः+अषेत्-अभप्लोऽषेत् । 'अषेत्' इति क्रियापदम् । ९ ई+प्रदीपाङ्कुराय 'ते' इत्यस्य विशेषणम्-चतुर्था एकवचनम् प्रत्यूहशल अभप्लोऽषेद्+ईप्रदीपाङ्कुराय-प्रत्यूहशलभप्लोषेदीप्रदीपाङ्कुराय । १० ते-तुभ्यम् । ] व्याख्या-प्रत्यूहान् विघ्नान् 'शठ हिंसा-संक्लेशयोः' [२२२] इति हिंसाऽर्थात् शठेः शऽति हिनस्ति क्विपि "धुटस्तृतीयः" [२।११७६] इति ठो डवे, ड-लयोरैक्याल्लत्वे प्रत्यूहश ! जिन !। ते तुभ्यम् । 'अं ब्रह्मपरम्' [ ] इत्येकाक्षरात् अं, अः कृष्णो व्यापकत्वेन तत्सदृशं यत् शिरःस्थानुस्वास्वाच्यं परं , 'वर्धमानः' इत्यस्य षष्ठयन्तत्वेन साधितत्वात् अत्र 'मङ्गलहे तोः' इति युक्तम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148