Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 83
________________ षणसमासे ताम्रायन् । पुनः किं. प्रत्यूहान् प्रतिकूलवितर्कान् शा ...यति खण्डयति विपि प्रत्यूहशश् । यते किं० न भाति क्विपि अभास्तस्यै अभः । कस्मिन् ? प्लोषणं प्लोषो दाहो हिंसेत्यर्थः तस्मिन् । नः किं० दीप्रो यो दीपस्तद्वदाचराम इति क्यङि क्विपि आमि' दीप्रदीपाम् । जिन: किं. कुं पृथ्वीं राति-दत्ते-क्विपि कुराः अर्थात् सेवकानामिति ॥४८॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायत्ते ॥४९॥ [सिद्धये वैध ! माऽऽनः स्तात् ता-ऽऽम् रायन्नख ! मण्डली । 'प्रत्यहशलभ प्लोषे दीपदीपाऽङ्करा य-ते" ॥४९॥] [१ चतुर्थ्या एकवचनम् । २ वा+ऋद्ध-वर्ध ! संबोवनैकवचनम्। ३ मा+आन+य-मानाषष्ठया एकवचने-माऽऽनः 'अते' इत्यस्य विशेषणम् । अत्र ग्रन्थकारः "अचासो त्वं च अत्वम् , तस्मै अते विष्णुसहशस्य तव सिद्धये" इति निर्दिशन् चतुर्थी-षष्ठयोः अभेदं विवक्षति इति गम्यते । अन्यथा: 'तस्मै अते' स्थाने 'तस्य अतेः' इति समुचितम् । ४ स्तात् इति क्रिया । ५ ता अमि-णिच्-ता-sऽम्-प्रथमैकवचनम् । ६ रायत्+नख-रायन्नख! संबोवनम् । ७ मण्डली प्रथमैकवचनम् । ८ प्रति ऊ ऊह+श+प्रत्यूहश+लभा-प्रत्यूहशलभः प्रथमैकवचनम् । ९ प्र+उषा+ई+प्रोषे+दीप्रदीप+प्रोषेदीप्रदीप अङ्कुर+अस्-प्रोषेदीप्रदीगङ्कुरास--प्रथमैकवचनम् । प्रत्यूहशलभ प्रोषेदीप्रदीपाकुरास+अते--प्रत्यूहशलभ प्लोषे दीप्रदीपाङ्कुरा य-ते । १० अ+त्वत्अतेः षष्ठया एकवचनम् । ] व्याख्या-वा एवार्थे । हे ऋद्ध! इभ्य! तथा "रैः स्वर्णे जलदे धने" [ ]इति एकाक्षरवचनात् रैः स्वर्णम् तद्वदाचरन्तः क्विपि शतरि रायन्तः स्वर्णसदृशा नखा यस्य स रायन्नखस्तस्य सं० हे ०ख ! भामण्डलशब्दस्य “ते लुगवा'[३।२।१०८]इति पूर्वपदलोपात् मण्डलं भामण्डलं विद्यते यस्य "अतोऽनेक स्वरात्" [७।२।६]इनि मण्डली जिनः अः कृष्ण इव अः । अश्वासौ त्वं च अत्यं तस्मै अते विष्णुसदृशस्य तव सिद्धये मुक्तये स्तात्-भवतु-इति सम्बन्धः । तव किं० माया लक्ष्म्या आन इव जीवितमिव आचरतः क्यङि क्विपि यलोपे षष्ठयां "लुगातोऽनापः" [२।१।१०७]इत्याकारलोपे मानः लक्ष्म्या १ अत्र 'प्रत्यूहशलू' इति पदं निष्पाद्यम् अतः शलयति खण्डयति इति समुचितम् । ज्वलादिगणे धातुपाठे 'शल गतो' [९८४] धातुर्विद्यते ततः 'शलयति' इति भविष्यति । आदर्श तु 'शा...यति' इति रिक्तमध्याक्षरं लिखित विद्यते । २ 'न भाति' इति प्रक्रियया 'अभा' इति आकारान्तं स्यात् तस्य चतुर्त्या विभक्तौ एकवचने 'अमे' इति उचितम् परन्तु ग्रन्थकारेण' 'अभः' इति प्रदर्शितम् एतस्य संगतिः शब्दानां पृथक्करणरूपे विवेचने विहिता । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148