Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 81
________________ यति उन्मन्थयति इति “गिन् चावश्यकाधमण्यें" [५।४।३६] इति णिनि ल-डयोlत्यये डली तिरस्कर्ता । कथम् ? प्रति लक्षीकृत्य, किं ? खः सूर्यः मश्चन्द्रः, समाहारे ख-मं रवि-चन्द्रम् , अर्थात् प्रतापेन यशसा च ॥४६॥ इति श्रीशत्रुञ्जय-रैवतकाभिवतीर्थद्वयं वर्णयित्वा साधारणजिन वर्णयतितथाहि सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥४७॥ ['सिद्धयेवर्धमानस्तात्ता म्रोयन् न खमण्डेली । 'प्रत्यशिल-भपोषे दीपदीपा कुरा यते" ॥४७॥1 [१ सिद्ध+या+इ=सिद्धये वर्धमानः सिद्धयेवर्धमानः प्रथमान्तम् । २ ता+अत्+तायू-तात्ता प्रथमान्तम्। ३ म्लायन्-लस्य रत्वे म्रायन्-प्रथमान्तम्। ४ 'म्रायन्' इत्यनेन सह 'न' शब्दस्य अन्षयः 'न म्लायन्' इति भावः । ५ ख+मण्डल+इन् खमण्डली प्रथमान्तम् । ६ प्र+तप्रती-प्रथमान्तम् । अनेन 'प्त' शब्दः सूचितः । ७ ऊह+श+लव-ऊहशल प्रथमान्तम् । ८ भ+प्र+उषेन-भप्रो न्-भप्रोषे। ऊहशल+भप्रोषे-अत्य सन्धौ-ऊहशलभप्रोषे। प्रती ऊहशलभप्रोषे-प्रत्यूहशलभप्रोषे ९ दीप्रदीप+आ-तृतीयैकवचनम्-दीप्रदीपा । १० कु:+आस-कुराः । अनेन 'आ'वर्णः सूचितः । अनेन 'आ' इत्यनेन पूर्वोक्तस्य ‘प्त' इत्यस्य संयोगे 'आप्त' इति पदेन साधारणजिननामसूचनम् । ११ न+ता अता+ईर् अतेर् अतेः-अत्र विसर्गों न गण्यः-अते-प्रथमान्तम्। कुरास्। अते यते । अनुस्वारः उच्चारणीयः ।] ___व्याख्या-कुः शब्दो वाचकोऽस्ति । किं. आकारेण अपति शोभते क्विपि आः अधुना 'आ' इति सिद्धम्। पुनः किं० प्रतो प्कारं राति-आदत्ते-"आतो डः०" [५।११७६]इति डे प्रः, ईदृशस्तकारो विद्यते यस्य स प्रती "अतोऽनेकस्वरात्"[७।२।६] इनि, इयता 'आस' इति सिद्धम् । आतो जिनोऽस्तीत्यर्थः । किं न ता अता अलक्ष्मीस्ताम् ईरयति कम्पयति विपि अते:-रलेषाद् विसर्गाभावः। पुनः किं० 'वृधूङ वृद्धौ' [९५७] घनि-वों वृद्धिः । तथा 'मीगश् हिंसायाम्' [१५१२] भावे अनटि "मिग्मीगोऽखलचलि" [४।२।८] इत्याकारे मानं हिंसा । वर्षश्च मानं च वर्ध-माने या लक्ष्मीश्च इः कामश्च ययौ सिद्धे सम्पन्ने ययोः कमला-कामयोर्वर्ध-माने आनुपा यस्मात् स सिद्धये ०मानः-लक्ष्मीवृद्धिकृत् , कामक्षयकृच्चेत्यर्थः । पुनः किं० "ता मही-लदम्योः" [ ] इत्यनेकार्थवचनात् ता पृथिवी ताम् अतन्ति गच्छन्ति क्विपि तातो मनुष्यास्तान तायते इति क्विपि “य्वोः प्वय ०" [४।४।१२१] इति यलोपे तात्ता । पुनः किं० र-लयोरैक्यात् न म्लायन् सदैव बाह्यान्तरमलवियुक्तत्वात् । पुनः किं० खवत् सूर्यसमं 'ते लुग वा" [३।२।१०८] इति पूर्वपदलोपात् मण्डलं विद्यते यस्य Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148