Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 80
________________ श्रीशत्रुञ्जयतीर्थ वर्णयित्वा श्रीगिरनारतीर्थ वर्णयति-तथाहिसिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥४६॥ ['सिद्धयेवर्धमानस्ताऽऽत्ताऽम्रायन् न ख-मं डली । प्रत्यूहशल-अभप्लोषेद्-'ईप्रदीपांकुराय ते ॥४६॥] [ १ सिद्धयेवा+ऋद्धमान=सिद्धयेवर्धमान इति । २ स्त+आत्त-स्तात्त। सिद्धयेवर्धमान+ स्तात्त-सिद्धयेवर्धमानस्तात्त ! संबोधनैकवचनम् । ३ अम्लायत् इति क्रियापदम् तस्य च 'न' इत्यनेन अन्वयः-न अम्लायत् इति भावः । लस्य रत्वे अम्रायत् । ०स्ताऽऽत्त+अम्रायत्-स्तात्ताम्रायत्+नस्तात्ताम्रायन्न इति । ४ ख-मं प्रति इत्येवं 'प्रति'पदम् ख-मपदेन संयोज्यम् । ख-मम् इति द्वितीयान्तम् । ५ 'लडी' इति पदस्य व्यञ्जनव्यत्यये 'डली' इति निष्पाद्यम् । ६ प्रति+ऊह+शड्=प्रति +ऊहशल्-प्रत्यूहशल । एतच्च कर्तृपदं प्रथमान्तम् 'न अम्लायत्' इति क्रियया अन्वितम् । ७ अ+भ+प्लोष+इन्ध-अभप्लोषेत् प्रथमान्तम् । ८ ई+प्रदीप ईप्रदीप! ९ अ+कु+राय-अकुराय । अत्र 'राय' इति 'रा' धातोः 'कत्वा'प्रत्य धकभूतकृदन्तम्-रात्वा-ततः कुरात्वा-कुराय। अकुराय-अकुराय । अनुस्वारयुक्ते उच्चारणे अंकुराय इति । १० ते 'तुभ्यम्' अर्थे चतुर्यन्तम् । एवं प्रत्यूहशल+अभप्लोषेदु+ईप्रदीप+अंकुराय+ते-प्रत्यूहशलभप्लोषेदीप्रदीपांकुरायते इति संजातम् । व्याख्या-'षिधू गत्याम् ' [३२०] क्ते सिद्धो गतो यां लक्ष्मी कामक्रीडार्थम् ईयते गच्छति क्वनिपि येवा विष्णुस्तस्य ऋद्वो महान् मानः अहङ्कारो यस्मात् स सिद्धयेवर्धमानः श्रीनेमिः स एव 'स्तन शब्दे' [३२३] इति स्तनति धर्मदेशनां करोति विपि स्ता धर्मदेशकः सविशेषणस्य विशेष्यत्वविवक्षया सिद्वयेवर्धमानस्ता तेन आत्तः अङ्गीकृतस्तस्य सं० हे सिद्वयेवर्धमानस्तात ! श्रीगिरनारतीर्थ ! । तथा हे ईप्रदीप ! ई पृथिवी तस्यां प्रदीप इव प्रदीपः त्रिभुवनान्तरतमःक्षयकारित्वात् तस्य सं० । सम्प्रदानविवक्षया ते तुभ्यं कु ईषत् 'रांक आदाने'[१०६९]-दानेऽपि च केचित्-इति आदानार्थत्वाद् राणं पूर्व "प्राक्काले' [५।४।४७] इति क्वा, तस्य “अनञः क्त्वो यप्" [३।२।१५४] इति यपि कुराय, पश्चात् नञा योगे अकुराय सम्पूर्णमङ्गीकृत्य । ऊहं शटति जानाति क्विपि टस्य डत्वे, ड-लयोरक्याल्लत्वे ऊहशल विचारज्ञो मनुजो न अम्लायत्-कर्मावलेपे न म्लान इत्यर्थः । किं०मनुजः अः कृष्णस्तस्माद् भवति "क्वचित्" [५।१।१७१] डे अभः कामः तस्य प्लोषः' दाहः तेन 'लोकृ तर्क० [१७६६] इति पठितभासार्थाः' इति चुरादेर्णिचि इन्धयति दीप्यते क्विपि अभप्लोषेत् कामसुखमुक्त इत्यर्थः । पुनः किं. आवश्यकार्थस्य गम्यत्वात् , 'लड जिह्वोन्मन्थने' [१०३६] इत्यतो णिगि घटादेह्रस्वत्वे, अवश्यं लड Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148