Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 84
________________ ५५ जीवितसदृशस्येत्यर्थः । जिनः किं० प्रत्यूहश नभः । प्रपूर्वात् 'तयि णयि रक्षणे च [७९७] इत्यतो भावे क्तौ “य्वोः प्वय्०" [४|४|१२१] इति यलोपे, “अतः " [४|३|८२] इति अल्लोपे प्रत्तिः रक्षणं जीवानामित्यर्थः । तथा 'अव रक्षण०' [ ४८९] इति गत्यर्थाद् भावे क्विपि ऊर्ज्ञानम्, ऊहो विचारः शं सुखम् तेषां द्वन्द्वे प्रत्यूहशं करोति णिजि, अचि प्रत्यूहालमा प्राप्तिर्यस्य स प्रत्यूहशलभः । पुनः किं० र-लयोरैक्यात् प्रकृष्टा “अनड़वाह्यनडुयुषा' [कां०४, १२६५ ] इति मौलावचनाद् उषा गौः प्रोषास्तस्या ई दुग्धादि - , लक्ष्मीस्तद्वद् दीप्रो दीपनं घञि दीपो दीप्तिर्यस्य तत् प्लोषे दीप्रदीपं यत् "अङ्कुरं सलिले रोम्णि रुधिरेऽभिनवोद्गमे ' [ हैम अने० सं० त्रिस्वरकां ० श्लो० १११८] इति अनेकार्थवचनाद् अङ्कुरं रुधिरं तेन असति शोभते क्विपि प्लोषे दीप्रदीपाकुराः, ततो रोर्यले सिद्धम् । जिनानां रुधिरं गोदुग्धसदृशं वर्ण्यते । पुनः किं० ता लक्ष्मीः 'अम् गतौ' [३९२] “इकिस्तिव् स्वरूपार्थे” [५।३।१३८] इति 'इ' प्रत्यये अभिः ज्ञानं तौ करोति णिजि क्विपि ताम् । अग्रे व्यञ्जनस्य विद्यमानत्वाद् अनुस्वारस्य प्राप्तावपि असन्धिविवक्षया तदभावः ॥ ४९ ॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ॥५०॥ [ सिद्धये वर्धमानः स्तात् तौम्राऽऽयत् नखमण्डली । मैत्यूहशलभ ! प्लीषेदी ! मँदीपाङकुरा येते ॥ ५० ॥ ] [१ सिद्धये चतुर्थ्यन्तम् । २ वर्धमान् इत्यस्य वर्धमानः इति षष्ठयन्तम् ततरच 'यते' पदस्थितस्य 'ते' इति षष्ठ्यन्तस्य विशेषणम् । ३ क्रियापदम् । ४ ताम्र+आ+आयम् = ताम्राऽऽयत्- 'नखमण्डली' इत्यस्य विशेषणम् प्रथमान्तम् । ५ प्र+ति + ऊ + हस+लभा = प्रत्यूहशलभ ! संबोधनम् । ६ प्र+उष+ इ+ प्रोषे+दा=दी = प्रोषेदी : =प्लोषेदीः - संबोधनम् । ७ प्रदीप+अङ्कुर+अस्= प्रदीपाङ्कुरास् - प्रथमान्तम्दीपाकुराः । ८ अ+ते=अते । अत्र 'अ' - कारः केवलं पादपूरणार्थः । दीपाङ्कुरास्+अ-ते दीपा - कुरायते । ] Jain Education International व्याख्या-र-लयोरैक्यात् प्रकर्षेण उषति दहति जगदिति “नाम्युपान्त्य ० " [ ५|१|५४ ] इति के प्रोषो दाहकृत् यः इः कामस्तं द्यसि छिनत्सि क्विपि परमते “ ईञ्जनेऽयपि " [ ४|३ | ९७ ] इति ईकारे प्लोषेदीः तस्य सं० । हे जिन ! | हे प्रत्यूहशम ! प्रकृष्टा तिर्ज्ञानम् ऊ दीप्तिस्तयोः श-सयोरैक्यात् हसः प्रकाशः तस्य लभा प्राप्तिर्यस्य तस्य सं० । अ इति पादपूरणे । ते तव नखमण्डली नखश्रेणिः नः अस्माकं सिद्धये मोक्षाय स्तात् भवतु - इति क्रियासम्बन्धः । न इत्यत्र चित्रत्वाद १ हैमनाममाला । २ "अङ्कुरो रोम्णि सलिले रुधिरे अभिनवोद्गमे” इति पाठः अनेकार्थसङ्गहे । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148