Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 74
________________ व्याख्या-सिद्धां शाश्वती यां लक्ष्मीम् 'ईचू गतौ' [१२५२] इत्यत ईयते गच्छति "मन्-वन्-क्वनिप्०" [५।१।१४७] इति क्वनिपि सिद्धयेवा शाश्वतजिनः नः अस्माकं प्रत्यूहान् विघ्नान् शल्कयति खण्डीकरोति क्विपि सौ “पदस्य" [२।११८९] इति क्लोपे प्रत्यूहशल विघ्नखण्डकः स्तात्-भवतु-इति क्रियासम्बन्धः । जिननामाहसिद्धयेवा किं० ऋकारं दधाति "आतो डो०" [५।११७६] इति ऋधो मा वाचको यस्य स ऋधमाः पश्चाद् “अवर्णस्येवर्णादिना." [१।२।६] इति अरादेशः। एतावता 'ऋ' इति सिद्धम् । तथा 'अभ' इति वर्गद्वयं प्लवते गच्छति श्रयति स्वाग्रत इति विचि गुणे अभप्लोः ईदृशं ष्कारम् आयूर्वाद् 'इग्क् गतौ'[१०७५] इति धातोः ऐति गच्छति नामद्वारा श्रयतीति क्विपि तागमे अभप्लोषेत् । एतावता ऋषभः शाश्वतजिन इत्यर्थः । पुनः किं तया लक्ष्म्या न म्लानिं करोति णिजि म्लानयत्यति क्विपि सौ "नाम्नो नो." [२।१।९१] इति नलोपे ताऽम्ला । तथा पुनः किं० “ आ विधातरि मन्मथे " इत्यनेकार्थवचनात् आ विधाता, तथा "भवेदैर्विष्णुरैः शिवः [ ]इत्यनेकार्थवचनात् ऐः शिवः ० द्वन्द्वे आयौ इवाचरन् आयन् । तथा अः कृष्णः खः सूर्यः, मश्चन्द्रः एतेषां समाहारे अखमं, तदिव विष्णु-सूर्य-चन्द्र-सदृशमित्यर्थः । कृष्ण-शिव-विधयोऽप्येकमूर्तित्वात् शिवस्य नित्यत्वात् , नित्या एव मिथ्याभिर्मन्यन्ते इत्येतेषां साम्यम् । तथा अ-खमा अपि शाश्वता एव शाश्वतत्वात् तबिम्बस्य । पुनः किं० डलीः "डले 'विलासे'[२५५] लडति विलसति इति क्विपि लइ विलसत् 'ईङ्घ गतौ' [१२५२] गत्यर्थानां ज्ञानार्थत्वाद् अयनं "कुत्सम्पदादिभ्यः" [५।३।११४] इति भावे क्विपि ईनि यस्मिन् स डलीः । पुनः किं० ई लक्ष्मीस्तस्याः प्रदानं प्रदिः “उपसर्गाद् दः किः" [५।३।८७] इति 'कि' प्रत्यये “ इडे पुसि." [४।२।९४] इति आकारलोये ईप्रदिः सेवकानां लक्ष्मीप्रदानम् तदिच्छति क्यनि पूर्ववत् क्विवानयनादिकार्ये कृते ईप्रदोः ।तथा इः कामस्तं पैं शोषणे' [४७] इति पायति शोषयति “आतो डः०" [५।११७६] इति डे इपः । तथा ६ अङ्कुरं सलिले" [ ] इत्यनेकार्थवचनाद् अङ्कुरं जलं तद्वत् निर्मलं यत् 'इणकु गतौ' [१०७५] 'गत्यर्था ज्ञानार्थाः' इति एति जानातीति "तन्-व(व्य)धी०" [५।१।६४] इति णे आयो विद्वान्, तस्य भावे तलि आयिता ज्ञानिवं तं दीयते श्रयति क्विपि अङ्कुरायते । पश्चात् त्रयाणामपि विशेषणानां विशेषणसमासे । ईप्रदीपाङ्कुरायते ॥४१॥ १-'म्लानयति इति विवपि' इति उचितम् । २ 'तबिम्बस्य' इति पूर्णम् । ३ 'लड्' इति उचि. तम् धातोस्तथाभावात् । ४ आयस्य भावः अयता अतः अत्र 'आयता' उचितम् । ५ आयता+ई: =आयते:--'आयते'इत्यस्य साधनाय 'तं दीयते' स्थाने 'तद् ईयते' इति उचितम् अन्यथा आयते इति नैव स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148