Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 72
________________ ४३ [२ । १ । ७६ ] इति कस्य गवं संज्ञाशब्दत्वान्न कृतम्, कृते तु न ज्ञायते 'अग्' इति वर्तते ‘अक्' इति । एतावता व्यालाङ्कः श्रीपार्श्वजिन इत्यर्थः । त्वं पुनः किं० ताश्चारास्तत्सदृशा रागादयोऽपि तास्तेषाम्, आमं रोगं करोति णिजि क्विपि ताम् । तथा प्रुषू 'लुष दाहे' [५३३] इत्यतः प्लोषणं घञि प्लोषो दाहः इति: अजन्यम् उत्पात इति यावत् द्वन्द्वे प्लोषेती ते करोति णिजि क्विपि लोषेत् य इः कामस्तम् 'ईरिक् गति - कम्पनयोः ' [ अदादि ५७ ] इति कम्पनाद ईर्तेर्णिगि ईरयति कम्पयति भयभ्रान्तं करोतीति यावत् क्विपि 'घुटस्तृतीयः' [२ । १ ।७६ ] इति तस्य दवे लोषेदी, श्लेषाद् विसर्गलोपः ॥ ३९॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ||४०|| [ सिद्धेयेवर्धमा ! नः स्तात् ताम्रायं नखमेण्डली' । मैहशलभप्लोषे दीर्घदीपाकु 'राय ! ते” ॥ ४० ॥ ] [ १ सिद्धय ! संबोधनैकवचनम् । सिद्ध+या = सिद्धय इति । २ ईवर्धमा | संबोधनैकवचनम् । ई+व्+अ+र्+व+मा = ईवर्धमाः ! अनेन पदेन श्रीमहावीर जिनवाचकः 'वीर' शब्दः उत्पादितः । नः इति षष्ठी । सिद्धय + ईवर्धमाः + नः = सिद्धये वर्धमानः । ३ स्तात् इति क्रिया । ४ ताम्र+क्यङ्=ताम्रायम् प्रथमैकवचनम् 'नखम्' इत्यस्य विशेषणम् । ताम्रायम्-नखम्=ताम्रायन्नखम् । ५ अम्+डल =अण्ड ! संबोधनम् । ६ इ+इन = ईन्= ई - प्रथमैकवचनम् -'नखम्' इत्यस्य विशेषणम् । अण्डल् + ई = अण्डली । ताम्रायन्नखम्+अण्डली = ताम्रायन्नखमण्डली। ७ 'प्रति' इति 'प्रति' अर्थसूचकम् पदम् । ८ ऊ+ऊह = ऊह + शरभ + प्लोषे रस्य लत्वे ऊहशलभप्लोषे आदौ 'प्रति' पदसंयोगे प्रत्यूहशलभप्लोषे । ९ दीप्रदीपाङ्क +उ = दीप्रदीपाको पश्चात् हस्वत्वे - दीप्रदीपाकु 'नखम्' इत्यस्य विशेषणम् । अत्र अङ्क + ऊ =अङ्को इति जाते पश्चात् ह्रस्वत्वे दीप्रदीपाकु इति साध्यम् । १० राय ! संबोधनम् । ११ ते तव इत्यर्थे षष्ठ्यन्तम् । ] Jain Education International व्याख्या -- ईकारेण युक्तं वकारम्, अकारेण युक्तं रकारं च दधाति " आतो डः०” [५।१।७६] इति डे ईवर्धो 'मां मान- शब्दयोः ' [अदादि - ७९] इति शब्दार्थाद मिमीते क्विपि मा वाचको यस्य स ईवर्धमाः । एतावता वीरः तस्य सम्बो० हे वीर ! श्री वर्धमानः । हे अण्डल ! अः कृष्णस्तत्सदृशे यदनुस्वारवाचकं परब्रह्म तेन 'लड् विलासे' [२५४] इत्यतो ललति विलसति क्विपि अण्डल् तस्य सं० । तथा हे सिद्धय ! सिद्धा मुक्तास्तान् याति "आतो डः ०" [५/१/७६ ] इति डे सिद्धयस्तस्य सं० । तथा “राः स्वर्णे जलदे" [ ] इत्येकाक्षरवचनात् रा मेघः तद्वदाचरति इति "कर्तुः १ एतद् द्वितीयाया द्विवचनम् -प्लोष + इति=प्लोषेती 'करोति' क्रियायाः कर्म । २ 'प्लोषेत्' पदस्य तकारस्य । For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148