Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 73
________________ क्वि०" [३।४।२५] इति क्विपि धातुवे रायति "पैचादौ सर्वधातवः” इति [ ] वचनात् पचायचि रायस्तस्य सं० हे राय ! मेघसदृश !। कस्मिन् ? अवनं हिंसनम् "भ्यादिभ्यो वा" [५।३।११५] इति क्विपि, "मव्यवि०" [४।१।१०९] इत्यूटि ऊहिंसा, तस्यामूहो विचारः स एव र-लयोरैक्यात् शलभः शार्दूलस्तस्य प्लोषे विदारणे । ते तव, तानवदाचरतीति "क्यङ्' [३।४।२६] इति क्यङि "दीर्वत्रिव०” [४।३।१०८] इति दीर्थे, अचि ताम्रायं ताम्रसदृशं जातौ एकवचने नखं नः अस्मान् प्रति लक्षीकृत्य ई लक्ष्मीः तया इनान् स्वामिनः करोति णिजि,क्विपि,तल्लोपे सौ“अनतो लुप्"[१।४।५९] इति तल्लोपे, “नाम्नो नो०" [२।१।९१] इति'न'लोपे, ई लक्ष्मीस्वामिकर्तृ स्तात्भवतु -इति क्रिषासम्बन्धः । दीपो दीप्यमानो यो दीपस्तस्य अङ्कः क्रोडो मध्यमित्यर्थः, तद्वत् । 'अव रक्षण' [४८९] इति दीप्त्यर्थाद् अवतेः-अवति दीप्यते किपि ऊटि "क्लीबे" [२।४।९७] इति हस्वे दीप्रदीपाङ्कु ॥४०॥ इति चतुर्विशतिजिनान् स्वस्वनामकर्षणपूर्व वर्गयित्वा ऋषभादिशाश्वतजिनचतुष्टयी तेनैव प्रकारेण वर्णयति-तथाहि सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥४१॥ ['सिद्धयेवर्धमा नः स्तात् ताऽम्राऽऽयन्न खमं ईली । प्रत्यूहशल अभंप्लोषेद् ईदीपाऽङ्कुरायते ॥४१॥] [१ सिद्ध +या+ई+वन्-सिद्धयेवा प्रथमान्तम् । २ ऋधमाः प्रथमान्तम् सिद्धयेवा+ अचसाः-सिद्धयेवर्धमाः । 'ऋधमा' शब्देन 'ऋ'कारः सूचितः । ३ नः षष्ठी । ४ स्तात् क्रियापदम् । ५ ता+अम्ला-ताम्ला:-प्रथमान्तम्-ततः ताऽम्रा । ६ ऐ+आ-आया-द्वितीयाद्विवचनम् -आयौ ततः-कृदन्तप्रत्ययान्तम्-आयन् प्रथमान्तम् । ७ अ+ख+मम् प्रथमान्तम् । ८ लड् +ई-लडी ल-डयोः अक्षरयोः व्यत्यये लडीः इत्यस्मात् डलीः प्रथमान्तम्-ततः-डली। अत्र ताऽम्रा+आयन्+अखमम्-डली-'ताम्रायन्नखमण्डली' इति बोध्यम्। ९ प्रत्यूह+शल्क-प्रत्यूहशल । प्रथमान्तम् । १० अ+भ+प्लो++आ+इत्-अभप्लोषेत् अनेन 'षभ' इति वर्णद्वयसूचनम् । पूर्वो. क्तेन 'ऋ'कारेण 'षभ' इत्यस्य संयोगे 'ऋषभ' इति प्रथमस्य शाश्वतजिनस्य नाम निष्पन्नम् । ११ ई+प्र+दि-इत्यस्य कृदन्तरूपम् ईप्रदीः ततः ईप्रदी । १२इ+प-इपः । १३ अङ्कुर+आयता+ ई-अङकुरायते प्रथमान्तम् । अत्र 'ई:' इति क्विबन्तम् ततः 'ई' । अत्र प्रत्यूहशल अभप्लोषेत्+ईप्रदी+इप+अङ्कुरायते 'प्रत्यूहशलभप्लोषेदीप्रदीपाङ्कुरायते' इति निष्पन्नम् ।। १ "नन्दि-ग्रहि-पचादिभ्यः ल्यु-णिनि-अचः" इति [३। १। १३४] काशिकासूत्रम् । तत्र च "अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः" इति । अयं ग्रन्थकारः सर्वत्र हैमं व्याकरणं समाश्रितवान् तथाऽपि अत्र इदं विधानं काशिकागतं समाश्रितम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148