Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 77
________________ ૪૮ प्रतिहिंसा, ताम् ऊनयति क्षयं नयति इति क्विपि, तल्लोपे सौ "नाम्नो नो०"[२।११९१] इति नलोपे प्रत्यू । त्वं किं तास्तस्करास्तान् 'अटि हिंसाऽतिक्रमयोः' [६७४] इतिअट्टते हिनस्तीति क्विपि सौ 'पदस्य' [२।१।८९] इति टलोपे तात् । यतेः किं० शवन्ति हिंसन्ति जीवानिति क्विपि शषो हिंसकास्तेषु न भान्ति न शोभन्ते क्विपि शलभाः पश्चात् "धुटस्तृतीयः" [२।१।७६] इति षस्य डत्वे डलयोरक्याल्लत्वे शलभाः षष्ठयामेकवचने “लुगातोऽनापः" [२।१।१०७] इत्यालोपे शलभः श्लेषाद् विसर्गलोपः । पुनस्त्वं किं० प्लोबे दीप्रदीपाङ्कुराः । प्रकृष्ट उषा रात्रिः प्रोषा पूर्णिमा तस्याम् इन्धनं 'क्रुत्सम्पदादिभ्यः' ० [५।१।११४] क्विपि इत् दीपनं यस्य स प्रोषेत् चन्द्रस्तं स्वोद्दीपकतया ईयते गच्छति विपि प्लोषेदीः ईदृशो य इ: कामः स एव प्रदीपः तस्मिन् 'अङ्कुरं सलिले' [ ] इत्यनेकार्थवचनाद् अङ्करं जलं तद्वत् 'असी गत्यादानयोश्च' [९३२] इति चानुकृष्ट दीप्त्यर्थादसेः भाति इति क्विपि प्लोषे दीप्रदीपाङ्कुराः । यथा जलं प्रदीपं क्षयं नयति, एवं त्वमपि काममित्यर्थः ॥४३॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥४४॥ [ 'सिद्ध येवैध ! मानस्तात् ताम्रायन्नखम् अण्डली । प्रत्यूहशल अंभ प्लोषे ऽदीपदीपां कुराय ते ॥४४॥ [१ सिद्धः प्रथमान्तम् । सिद्धः+एवर्ध-सिद्धयेवर्ध ! । २ एवर्ध ! संबोधनम् । आ+इ=ए। +र-ध-वर्ध । ए+वध ! एवर्ध । अनेन +आ-वा, र+इ-रि' एवंरीत्या 'वारि' पदम् सूचितम् । ३ मा+नस्+ता+अत्-मानस्तात् द्वितीयैकवचनम् 'नखम्' इत्यस्य विशेषणम्। ४ तमी-तम्-र +अ+ई ताम्री+आ ताम्रा+यत्-ताम्रायत् 'नखम्' इत्यस्य विशेषणम् । ५ नखम् द्वितीयैकवचनम्। ६ अ+ण-अण्+डल अण्डल संबोधनम् । अनेन 'ण' वर्णः सूचितः । नखम् +अण्डल नखमण्डल । अत्र ग्रन्थकारः 'नखमण्डल' इत्येव साधितवान् 'नखमण्डली' इति पद न साधितवान् ततः 'ई' शब्दः अत्र समाविष्टः कार्यः तेन च 'नखमण्डली' इति साध्यम्। चित्रकाव्यत्वेन अत्र 'ई' शब्दः पूरणीयः । ७ प्रति+ऊ+ह-प्रत्यूह+शल्क-प्रत्यूहशल्कू ततः प्रत्यूहशल प्रथमान्तम् । ८ अ+भा अभा तस्य षष्ट्येकवचने अभः । इदं ते-तव-इत्यस्य विशेषणम् । अत्र विसर्गो न गण्यः । ९ प्लु-प्लो+ -प्लोषे ! एकारान्तं संबोधनम् अनेन 'षे' इति सूचितम् पूर्वोक्तरीत्या सूचित 'वारि++ण' इत्येषां वर्णानां संयोगे 'वारिषेण' इति शाश्वतजिनस्य नाम सूचितम् । प्रत्यूहशल+अभ+प्लोषे प्रत्यूहशलभप्लोषे। १० अदीप्रदीपाम् ह्यस्तन्याः प्रथमपुरुषैकवचने रूपम् दीप्रदीप्रत्+ई+पा+अम्= दीप्रदीपाम् अटः आगमे-अदीप्रदीपाम् इति क्रियापदम् । कु+रै-कुरै-अत्र 'कुराय' इति पदसाधनाय 'अ' पूरणीयः-कु+र+अ-कुराय ! संबोधनम् । १२ ते-षष्टीविभक्तिः-'तव' अर्थसूचकं पदम् ।] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148