Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 75
________________ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥४२॥ [ 'सिद्धये वर्धमानः स्तात् ताम्रायन्नखमण्डली । प्रत्यूहशल-भप्लोषे दीदीपाडुरा ‘यते ॥४२॥] [१ चतुर्थ्यन्तम् । २ वर्धमाननामा शाश्वतजिनः । ३ क्रियापदम्। ४ ताम्+रायन् ताम्रायन् प्रथमान्तम् । ५ अखि+मण्डली । ताम्रायन्+अखमण्डली-ताम्रायन्नखमण्डली । ६ 'प्रति' शब्दः प्रतिकूलताद्योतकः । प्रति-ऊ+ह+शल+म+प्लोषे-सप्तमी। ७ दीप्रत्+ई+प+अङ्कुर+ +अस्-दीप्रदीपाकुराः प्रथमान्तम् । ८ इ+अत्-यत् अस्य चतुर्थ्या एकवचने यते, एतत् 'सिद्धये' इत्यस्य विशेषणम् ।] व्याख्या-वर्षमानः शाश्वतजिनो नः अस्माकं सिद्वये स्तात्-भवतु-इति सम्बन्धः । किं० तमायां तम्यां वा भवम् भवेऽणि तामम् अन्धकारं तत् करोति णिजि, अन्त्यस्वरादिलोपे क्विपि ताम् यो “रैः स्वर्णे जलदे” [ ] इत्येकाक्षरवचनात् राः मेघस्तद्वदाचरति "कर्तुः क्वि०" [ ३।४।२५] इति क्विपि, धातुत्वे शतरि ताम्रायन् । कस्मिन् ? प्रत्यूहशलभप्लोषे । दोपदीपाङ्कुरा० 'अव रक्षण०' [४८९] इति . गत्यर्थाद् अवतेः अवनं क्विपि ऊर्ज्ञानं तद् नन्ति क्विपि “अहन्पञ्चम०" [४।१।१०७] इत्यत्र हनो वर्जनाद् दीर्घाभावे ऊहानि ज्ञानावरणीय कर्माणि तान्येव 'शल चलने' [९८४] इति शलन्ति इतस्ततो गच्छन्ति अचि शलानि गत्वराणि भानि नक्षत्राणि, तेषां प्लोषे विनाशे लक्षणया तिरोधाने इत्यर्थः । मेधैरपि नक्षत्राणि तिरोधीयन्ते इत्येवं साम्यम् । पुनः किं० खानि इन्द्रियाणि, तद्ग्राह्याः शब्द-रूपादयो विशेषा अपि खानि, तेषां मण्डलं समूहो विद्यते यस्य स "अतोऽनेकस्वरात्" [७।२।६] इनि खमण्डली, पश्चान्ना निषेधे अखमण्डली । पुनः किं० दीप्रन्ती दीपं किञ्चन वस्तु तद्वदाचरन्ती या ई शोभा तां पाति रक्षति डे दीप्रदीपः । तथाऽङ्कुरो नवोद्गतलतादेः प्ररोहो जरामरणरहितत्वेन सर्वदैव नवीनत्वात् तद्दसति शोभते क्विपि अङ्कुरा विशेषणसमासे दीप्रदीपाङ्कराः । सिद्धये किं० इ: कामः, तं न तायते न पालयति क्विपि नञो अत्वे इना सह यत्वे अग्रे “य्वोः प्वय" [४।४।१२१] इति यलोपे चतुर्थ्याम् "लुगातोऽनापः" [२।१।१०७] इत्यालोपे, यते संसारक्षयहेतवे चारित्ररूपायै इत्यर्थः ॥४२॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥४३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148