Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 71
________________ ४२ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ||३९|| Jain Education International [सिद्धे "येवमाः नैः स्तात् तॉऽऽम् रायन्नखमण्ड ली । प्रत्यूहशल् अंभ ! "प्लोषेदी "प्रदीपांऽऽकुरायते ! ||३९ ॥ ] 3 [ १ सिद्ध 1 योगीन्द्र ! -संबोधनैकवचनम् । २ या + ई = ये + व् +अर्ध+ मायेवर्धमाः प्रथमान्तम् अनेन 'व्या' इति वर्णः संजातः । ३ षष्ठी । ४ क्रियापदम् । ५ त+आम्= ताम् प्रथमेकवचनम् । ६ रै+अङग्=रायङ्ग-राय त् + नख+मण्ड = रायन्नखमण्ड ! संबोधनैकवचनम् । ७ लीः -ली-प्रथमान्तम् लकारसूचकम् । पूर्वोक्तेन 'व्या' शब्देन 'ल' इत्यस्य संयोजने 'व्याल' इति शब्दो निष्पन्नः श्रीपार्श्वजि - नलाञ्छनरूपस्य व्यालस्य सूचकः । विसर्गो न गण्यः । ८ प्रत्यूह + शत्रू = प्रत्यूहशडु = प्रत्यूहशल् प्रथमान्तम् । ९ अ+भ=अभ ! संबोधनम् । १० प्लोष + ईति =प्लोषेति + णिज्-प्लोषेत्+इ+ई=प्लोषेदीः प्रथमान्तम् । ११ प्रदीप ! संबोधनम् । १२ अ + अङ्क +उरस् = आङ्कुराः प्रथमैकवचनम् । अनेन 'अङ्क' शब्दो निष्पद्यते ततः व्याल+अङ्क = ' व्यालाङ्क' इति पदम् श्रीपार्श्वजिनसूचकम् । १३ अ + ति=अतिः तस्य संबोधनैकवचनम् अते ! । अङकुरास्+अते अत्र सस्य त्वे रस्य च यत्वे आङ्कुरायते । ] व्याख्या - हे सिद्ध ! जितेन्द्रियत्वाद् योगीन्द्र ! | अभ नीलवर्णत्वात्, कृष्णनीलयोरैक्यात्, अवद् विष्णुवद् भाति " क्वचित् " [५ । १ । १७१ ] डे अभ स्तस्य सं० । तथा हे प्रदीप ! प्रकाशकत्वात् प्रदीपसदृश ! । हे अते ! न विद्यते तिर्गमनं यस्य स अतिस्तस्य सं० । हे रायन्नखमण्ड ! 'रै' शब्दोऽव्ययो दीप्त्यर्थः, रै दीप्तिम् अङ्गन्ति गच्छन्ति क्विपि रायगो दीप्तिमन्तो ये नखास्तैर्मण्डयति भूषयति नान् इत्यणि रायन्नखमण्डस्तस्य सं० । 'रायङ्ग्' इत्यत्र पदस्य [२ । १ । ८९] इति गोपे, ' निमित्ताभावे ० ' इति न्यायेन नैत्वाभावे नकारान्तत्वम् | त्वं नः अस्माकं प्रत्यूहान् विघ्नान् 'कष शिष जष झष' [ ५१८] पठितस्य हिंसार्थस्य 'शष' धातोः शपति हिनस्ति क्विपि 'घुटस्तृतीयः ' [२ । १ । ७६ ] इति षस्य डत्वे ड-लयोरैक्याल्लत्वे प्रत्यूहशल् विघ्नहन्ता स्ताद् भव इति सम्बन्धः । नामविशेषमाह-त्वं किं० या इतिवर्ण ईयते गच्छति क्विपि येः ईदृशो वकारः अर्धे अंशे यस्य स येवर्धः, ईदृशो मा वाचको यस्य स येवर्धमाः । एतावता 'व्या' इति सिद्धम् । पुनः किं० लकारमिच्छतीति क्यनि " क्यनि” [ ४ । ३ । ११२] इति ईकारे क्विपि " य्वोः ध्वय्० [ ४ । ४ । १२१] इति यलोपे लीः । एतावता 'व्याल' इति सिद्धम् तथा अकारण युक्तम् अङ्क इति अक्षरम् उरो अग्रे यस्य स आङ्कुराः । अत्र “घुटस्तृतीयः” "" "" १ " निमित्ताभावे नैमित्तिकस्यापि अभावः " इति न्यायः हेमहंसीये न्यायसंग्रहे २९| 'अगु' धातोः उदितः 'न्’आगमे 'अन्ग्' ततः गनिमित्तकः नस्य ङकारः यदा च गकारस्य लोपः तदा तन्निमितकः '' अपि निवृत्तः ततः अन् इति स्थितम् इति भावः । २ छत्वाभावे इति उचित्तम् । 97 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148