Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 69
________________ ४० एतावता नमिः श्रीनमिजिनः । सिद्धा शाश्वती चासो ई शोभा च सिद्धे तया सिद्धया स्वाभाविकशरीरकान्त्या अकु अनीषद् बहुर्यो "रो ध्वनौ तीक्ष्णे वैश्वानरे" [ ] इत्येकाक्षरवचनात् रो वैश्वानरस्तद्वदाचरति इति क्यनि 'दीर्घश्च्चि० " [४।३।१०८] इति दीर्घ अङ्कुरायते अनल्पवैश्वानरवदाचरति । कस्मिन् ? प्रत्यूहशलभप्लोषे प्रत्यूहिंसा सैव 'हः हस्ते दारुणि "[ ] इत्येकाक्षरवचनात् हानि काष्ठानि शरा बाणाः, तृणविशेषो वा, तत्र भाति “क्वचित्" [५।१११७१] डे प्रत्यूहशलभो यो प्लोषो विनाशस्तस्मिन् । सिद्वया किम्भूतया ? दीपो दीपनशीलो यो प्लोषो विनाशस्तस्मिन् सिद्धया । किम्भूतया ? दीप्रो दीपनशीलो यो दीपस्तद्वदाचरति क्यङि क्विपि तृतीयाटायां "लुगातोऽनापः" [२।१।१०७] इत्यालोपे दीप्रदीपा प्रदोपवत् प्रकाशिकयेत्यर्थः । जिनः किं० 'अट्टि हिंसाऽतिक्रमयोः '[ ६७४] इति हिंसाऽर्थादट्टेः क्विपि “पदस्य" [२।१।८९] इति टलोपे अत् भावे तलि अत्ता हिंसा सैव आमो रोगस्तं कुर्वन्ति.णिजि क्विपि अत्तामो हिसकाः त एव ये "राः स्वर्णे जलदे धने" [ ] इत्यनेकार्थवचनात् रायो मेघास्तेषु "अन्नः आत्मा वायुः"[उणादि-सू० २५८]इति उणादिवचनात् अन्नं वायुमाचष्टे णिजि "त्रन्त्यस्वरादेः" [७।४। ४३] इति लोपे क्विपि नामत्वे सौ “दीर्घङी०" [१।४।४५] इति तेल्लोपे, "नाम्नो नोऽनह्नः" [२।१।९१] इति नलोपे अत्ताम्रायन् हिंसकजनमयमेघविषये वायुमाचक्षाणः । यथा वायुर्मेघे प्रतिकूलः, तथा त्वमपि हिंसकजने इत्यर्थः। तथा खः सूर्यः तस्माद् भवा भा अपि खस्तस्य मण्डलम् भामण्डलम् तद् विद्यते यस्य स “अतोऽनेकस्वरात्" [७२।६] इति खमण्डली पश्चाद् विशेषणसमासे अत्ताम्रायन्नखमण्डली । सन्धिसूत्राणि सुगमानीत्युपेक्षितानि ॥ ३७॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥३८॥ [सिद्धयेवर् ! धमानस् ! ताऽत्ता म्रा ! यन् नै खमण्डली । प्रेत्यह-शलभ "प्लोषे दीद् ईपाङ्करायते ॥ ३८॥ [१ सिद्धः इति प्रथमान्तम् । ततः ‘एवर्' इति पदस्य संयोगे रस्य यत्वे च सिद्धयेवर, ततश्च 'धमानः' इत्यस्य संयोगे सिद्धये वर्धमानः इति ज्ञेयम् । अत्र 'एवर् इति पदम् एकारसू अत्र ग्रन्थकारः 'धमाः' इति पदं न साधितवान् “ध-धिषणा, मा-लक्ष्मीः ताभ्याम् असति शोभते यः सः धमाः ' इत्येवंरीत्या 'धमाः' इति पदं साध्यम् । ३ 'नः !' इति संबोधनम् नकार१ उणादिसूत्रे तु "अत्नः आत्मा वायुः मेघः' इत्येवम् 'अत्' धातो 'अत्न' शब्दः 'त्'युक्तो निर्दिष्टः न तु 'अन्न' शब्दो द्विनकारयुक्तः । पाठान्तरेऽपि 'अत्नम्' इत्येवम् 'त्' युक्तस्यैव पाठः । अनेन ग्रन्थकारेण 'अत्न' इति पदम् 'अन्न' इत्येवं पठितं संभवेत् अत एव तेन अत्र उणादिसाक्ष्यं सूचितम् । २ तस्य लोपे तल्लोपे अर्थात् सिप्रत्ययस्य लोपे । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148