Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 68
________________ क्विपि दीपू दीप्यमान इत्यर्थः । अत्र विरामविवक्षया "विरामे वा " [१ । ३ । ५१] इति पत्वम्, विरामश्च सन्ध्यविवक्षया । यदुक्तम् “ संहितैकपदे नित्या, नित्या धातूपसर्गयोः । नित्या समासे, वाक्ये तु सा विवक्षामपेक्षते ॥ 39 ३९ [ संग्रह श्लोकः सि० हे० ल० वृ०पृ०५७९] इति । अत्र तु वाक्यं वर्तत एव इत्युपपन्नम् । पुनः किं० प्रत्यूहा विघ्नास्त एव शरे जले भवन्तीति “क्वचित् " [ ५ । १ । १७१] डे शलभानि कमलानि तेषां प्लोषे विनाशे रदी - हस्ती - ३ रदी हस्तितुल्य इत्यर्थः । पुनः किं० पाति रक्षति क्विपि पानि रक्षकाणि “अङ्कुरं सलिले रोणि” [ ] इत्यनेकार्थवचनाद् अङ्कुराणि शरोररोमाणि तैः असति शोभते क्विपि पाङ्कुराः । तथा न विद्यते शोभा यस्य स अतैः निःश्रीकः इः कामो यस्मात् स अतेः ॥ ३६ ॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ||३७|| [ सिद्धये वर्धमा नस्तात्तौऽऽम्रायन न खमेण्डली । प्रत्यूह-शल-भप्लोपे दीनँदीपांकुरयिते ॥ ३७ ॥ ] [ १ : सिद्धया इति तृतीयान्तम् सिद्धा + इ = सिद्धे तस्य तृतीयैकवचनम् । २ इ+वर्ध+म्+आस् = इवर्धमास् अनेन पदेन 'मि' इति सूचितम् । इवर्धमाः इति प्रथमान्तम् । सिद्धया - इवर्धमाः - सिद्धये वर्धमा इति । ३ न+स्तन्नस्ता इति पदेन 'न' इति सूचनम् । ततः न+मि = 'नमि' इति नमिजिननामसूचनम् । ४ अत्ता + आम् + रै+अन् अत्ताम्रायन् । अत्र 'रै+ अन् इत्यस्य सन्धौ रायन् ततः अत्ताम् + रायन्=अत्ताम्रायत् । नस्ता + अत्ताम्रायन् नस्तात्ताम्रायन् । ५ खमण्डली प्रथमान्तम् । नस्तात्ताम्रायन् + खमण्डली । अत्र ग्रन्थकारः 'नख' इत्यस्य आदिभूतं 'न' पदं न साधितवान् तेन यन्मण्डली इत्येव स्यात् परन्तु 'यन्नखमण्डली इति न स्यात् । अतः ग्रन्थकार सूचित 'अन्न' पदस्य णिजन्तीभावो न कार्यः ततः ' ० रे + अन्न' इति जाते 'रायन्न' इति सेत्स्यति ततश्च 'रायन्नखमण्डली' इत्यपि सिध्यति । अर्थे तु न कोऽपि भेदः - मेघे अन्नरूपः - वायुरूपः इति अर्थः सुसंगतः । ६ प्रति+ऊ+ह्+शर+भ+प्लोषे प्रत्यूहशलभ - प्लोषे । दीप्रदीपा तृतीयान्तम् 'सिद्धया' इत्यस्य विशेषणम् । अकु+रायते =अकुरायते अनुस्वारस्य वृद्धौ अङ्कुरायते । ] ७ ८ व्याख्या - नकारं स्तनति वक्ति नामद्वारा क्विपि सौ “नि दीर्घः” [१|४|८५ ] इति दीर्घे "नाम्नो नोऽनह्नः " [२।१।९१] इति सिद्धम् । तथा इकारेण वर्धते अचि इवर्धो यो नलोपे नस्ता । एतावता 'न' इति मकारस्तम् आसते किपि इवर्धमाः । श्रियाम्" - [ एकाक्षर० को ० सुधा० श्लो० २३] 'अतः' इति रूपं प्रथमान्तम् एकवचनम् । ० Jain Education International १ 'इ' स्थाने 'इव' इति युक्तम् । २ “ता इति वचनात् अतः अशोभः निःश्रीकः इति यावत् । For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148