Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 66
________________ ३७ [सिद्धये वध ! मा ! ३: स्तात् "ताऽऽम्रा यन्नखमण्डली । प्रत्यूह-शल-भ-प्लोषे दीदीपाङ्क रायते" ॥३५॥] [१ सिद्धये चतुर्थ्यन्तम् । २ वा+ऋद्ध-वर्ध ! अत्र ऋद्ध' इति संबोधनम् । 'वा' निश्चयार्थः तस्य च 'स्तात् वा'-'स्तात् एव' इत्येवंभावः । ‘स्तात्' क्रियापदम् । ३ म+असमाः एतदपि संबोधनैकवचनम् । इदं च मकारसूचकम् । ४ नः षष्ठी । ५ त+आम्+र+अत्-ताम्रास-ताम्राः विसर्गस्य अगणने ताम्रा इति प्रथमैकवचनम् । ६ 'य'नाम्नः आचारार्थे क्विपि यन् प्रथमैकवचनम् । ७ अखमण्डलीः अ+ख+मन्+ड-ली: अखमण्डलीः अनेन च 'ल्ली' इति सूच्यते। 'मास्'पदेन अनेन च पदेन 'मल्ली' इति श्रीमल्लिजिनस्य नाम सूचितम् । ८ प्रत्यूह+शर+भ+प्लोषे सप्तम्यन्तम् । रस्य लत्वे प्रत्यूहशलभप्लोषे । ९ दीप्रदीपाम् षष्ठीबहुवचनम् । १० कुः प्रथमैकवचनम् । ११ आ+यत+ई-आयते । कुः+आयते-कुरायते ।] __ व्याख्या-'ऋक् गतौ' [११३५] 'गत्यर्था ज्ञानार्थाः' इति अरणं क्विपि तोऽन्ते ऋत् ज्ञानं केवलज्ञानमित्यर्थः यद्वा 'ऋति (त) घृणा-गति-स्पर्धेषु' [२८७] इति, अतः अर्तनं ऋत् ज्ञानं तद् दधाति डे ऋद्धो जिनस्तस्य सं० हे ऋद्ध ! त्वं नः अस्माकं सिद्धये मुक्तये स्ताद् भवेति संबन्धः । वा एवार्थे स्तादेवेत्यर्थः । त्वं किं० मकारेण असति शोभते नामद्वारा इति क्विपि माः, तस्य सं० हे माः ! एतावता म इति सिद्धम् । तथा अकारेण “ख शून्ये" [ ] इत्येकाक्षरवचनात् खः शून्यो मङ्गतीति क्विपि मन् गच्छन् 'डो डकारो यस्मिन् स अखमण्डः ईदृशो लीकारो यस्य नाम्नि स अखमण्डलीः । ड-लयोरक्याल्लत्वे एतावता 'मल्ली' इति सिद्धम् । मल्लिजिनस्य स्त्रीरूपावतारत्वात् "इतोऽक्त्यर्थात्" [२ । ४ । ३२] इति ङ्यां मल्ली श्रीमल्लिजिनस्तस्य सं० । त्वं किं. "तस्तु तस्करे" [ ] इत्येकाक्षरवचनात् तस्तकरः । त इव तः चौरसदृशो निशायामेव प्रायः प्रकटीभावित्वात् तथा आमो राजयक्ष्मादिरोगस्तं करोतीति णिजि क्विपि भ्वादेरभावात् "मो नो म्वोश्च" [२।१ । ६७] इति नत्वाभावे आम् यक्ष्मादिरोगकृत् । तश्चासौ आम् च ताम् यो रः कामस्तम् अस्यति क्विपि ताम्राः पश्चाद् " अवर्ण-भो-भगो० " [१ । ३ । २२] इति रलोपः । पुनः किं० “यस्तु मातरिश्वनि" [ ] इत्येकाक्षरवचनाद् यो वायुस्तद्वदाचरतीति “कर्तुः क्वि०":[३ । ४।२५] इति क्विपि धातुत्वे शतरि सौ नागमे यन् वायुरिवाचरन् । कस्मिन् । प्रत्यूहा विघ्नास्त एव 'शरं जले" [ ] इत्यनेकार्थवचनाद् र-लयोरक्यात् शलं जलम् , तेन भान्ति शोभन्ते "क्वचित्" [५ । १ ।१७१] इति डे शलभा मेघास्तेषां प्लोषे विनाशे । पुनः किं. कुः स्थानम् , कासाम् ? दीप्राणां दीपां कान्तीनाम् । पुनः किं. "आ विधातरि मन्मथे [ ] इति वचनात् आ मन्मथस्तस्माद् यत उपरमस्तस्य ई भूमिः स्थानमित्यर्थः ॥३५॥ १ 'इ'सूचकः अयं डकारः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148