Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 65
________________ ३६ [५।१।१७१] डे अभः कामः, तं प्लोषति दहति विचि गुणे शलभप्लोट् तस्यै शलभप्लोषे कामभेदिकायै चारित्ररूपायै इत्यर्थः ॥३३॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥३४॥ [सिद्धये वर्धमा नः स्तात् ताम्रा यन्-न-खमण्डली । प्रत्युहंशलभप्लोषे दी प्रदीपाङ्कुरायते ॥३४॥] . [१ सिद्धः-प्रसिद्धः- इति प्रथमैकवचनम् । २ अ+ईएः इति प्रथमान्तं पदम् । अनेन 'अ'वर्णः सुचितः । सिद्धस् +ए इति सः रुत्वे यत्वे च 'ए'वर्णस्य संयोजने सिद्धये इति । ३ वर्धमाः-ऊ+अव+=वर् । वर+धमाः वर्धमाः। आभ्यां पदाभ्याम् अकारयुक्त्तः 'र'कारः सूचितः। ततः 'ए' इत्यनेन आभ्यां पदाभ्यां च 'अर' इत्येवं श्रीअरजिनस्य नाम सूचितम् । ४ नः इति षष्ठी । ५ स्तात् इति क्रियापदम् । ६ ताम्र+अस-ताम्राः-अतिशयताम्रवर्ण:-प्रथमैकवचनम् । ७ यत्-व्रतम् । यत्+न+ख-यन्नख+मण्डल-यन्नखमण्डली-प्रथमैकवचनम् 'अर' इत्यस्य विशेषणम् । ८ प्रति+ऊ+ऊह+शलभ+प्लोषे-प्रत्यूहशलभप्लोषे सप्तम्या एकवचनम् । ९ दीप्र+दीप+क्यङ् +दीप्रदीपाय+क्विप्-दीप्रदीपा+आम्-दीप्रदीपाम् षष्ठ्या बहुवचनम् 'नः' इत्यस्य विशेषणम् । १० कु+र+आयत+ई-कुरायतेः विसर्गस्य अगणने कुरायते-एकारान्तं प्रथमैकवचनम्। 1 व्याख्या-अकारं ईयते गच्छति क्विपि ओः । तथा अवति गच्छति क्विपि ऊर्गच्छन् अकारो यस्मिन् स वः। यो रो रकारस्तं दधाति आतो डः०" [ ५ । १ । ७६ ] इति डे वर्धः । एश्चासौ वर्धश्च एवर्धः मा वाचको यस्य स एवर्धमाः श्रीअरनाथः नः अस्माकं सिद्धो ज्ञातः स्तात्-भवतु-इति सम्बन्धः । किं० ताम्रो रक्तवर्णस्तम् अस्यति विजकान्त्या क्विपि तोम्रः। पुनः किं० यन्नखमण्डली यमनं "क्रुत्सम्पदादिभ्यः क्विप्" [५ । ३ । ११४] इति क्विपि “गर्मा क्वौ” [४ । २ । ५८] इति मलोपे यत् व्रतम् नः संवित् खम् सुखम् तेषां मण्डलं समूहो विद्यते अस्येति “अतोऽनेकस्वरात्" [७ । २ । ६] इति इनि यन्नखमण्डली । नः किं० दीप्रो दीपः प्रदीपस्तद्वत् आचरामः क्यङि क्विपि षष्ठयाम् “लुगातोऽनापः" [२ । १ । १०७] इत्यालोपे दीप्रदीपाम् । कस्मिन् ? प्रति प्रतिकूला या ऊहिंसा, तस्या यः ऊहस्तर्कः सः (प्रत्यूहः) स एव शलभः तस्य प्लोषे विनाशे प्रत्यूहशलभप्लोषे। अयमर्थः-हिंसारूपशलभानां प्लोषे दीपवत् भाचरताम् इति । जिनः कि० कुत्सितो रः कामस्तस्मादायतं उपरमस्तम् । 'ईच् गतो' [१२५२] इत्यतः विपि कुरायतेः श्लेषाद् विसर्गलोपः ॥ ३४ ॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥३५॥ १ अब ताम्र अस् इति जाते “ताम्रास-ताम्राः इति उचितम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148