Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 64
________________ ३५ ['सिद्धये वधमानः स्तात् ताऽऽम्रायन्नखमण्डली । 'प्रत्यूह शलभप्लोषे दीपदीपाङ्करायते ॥३३॥] [१ चतुर्थ्यन्तम् । २ वर्धम्+आनः वर्धमानः । वर्धम् प्रथमैकवचनम् । ऊ+ अर्ध+ म् = वर्धम् । यस्य नाम्नः अर्धभागे म् विद्यते इति अनेन पदेन सूचितम् । आनः प्रथमैकवचनम्--जीवनतुल्य इत्यर्थः । ३ क्रियापदम् । ४ ता+ आम्र + अस् = ताम्रास् + अन् + नखमण्डली = ताम्रास् + अन्नखमण्डली । पश्चात् सः रुत्वे यत्वे च ताम्रायन्नखमण्डली प्रथमैकवचनम् । ५ प्रति + ई + उ + ऊह-प्रत्यूहः अनेन पदेन 'थु' वर्णः सूचितः । प्रत्यूह इति प्रथमान्तं भिन्नं पदम् । ६ शल् + अभ + प्लोष् = शलभप्लोषे चतुर्ध्या एकवचनम् 'सिद्धये' इत्यस्य च विशेषणम् । ७ दीप्रदीप+अञ्च् = दीप्रदीपाङ् प्रथमैकवचनम् 'नखमण्डली' इत्यस्य विशेषणम् । ८ 'कु' + रास = कुराः-प्रथमैकवचनम् अनेन 'कु' वर्णः सूच्यते एवम् 'कु' तथा 'प्रत्यूह' इत्यनेन 'थु' तथा 'वर्धम्' इत्यनेन मध्यगः 'म्' । एतेषां संयोगे कु+म्+थु, ततः सन्धौ ‘कुन्थु' इति श्रीकुन्थुजिननामसूचनम् । ९ यतेः षष्ठी-एकवचनम् । विसर्गस्य अगणने 'यते' इति। यतेः आनः जीवनतुल्य इति भावः । ] ___ व्याख्या-कु इति वर्णेन युक्तो 'रासृङ् शब्दे' [८ ४९] इत्यतः कर्तरि क्विपि राः वाचको यस्य स कुराः 'कु' इति सिद्धम् । तथा प्रकृष्टं तकारं ईयते गच्छति किपि प्रतीः प्रतीः थकारस्तत्र उकारय ऊहो यस्मिन् स प्रत्यूहः श्लेषाद् विसर्गलोपः । एतावता 'कुथु' इति सिद्धम् । तथा अवेर्गत्यर्थात् कर्तरि क्विपि ऊर्गच्छन् अर्धे नाम्नः तुल्यभागे मध्ये इति यावत् म् मकारो यस्य स वर्धम् पश्चात् “म्नां धुड्०" [१।३।३९] इति नत्वे कुन्थुः श्रीकुन्थुजिनः । सिद्धये सम्पत्तये स्तात् । किं० · अन श्वसन प्राणने' [१०८९] इत्यनेर्धनि आनो जीवनं जीविततुल्य इत्यर्थः । कस्य ? यतेः साधोः । एकवचनं जातिविवक्षया साधूनामित्यर्थः । पुनः किं० ता ध्वनिर्देशनारूपा तया कृत्वा मधुरत्वात् आनं फलविशेषम् अस्यति तिरस्करोति क्विपि ताम्राः। पुनः किं० "अः कृष्णे विनतासूनौ” [ ] इत्यनेकार्थात् अः गरुडः तद्वदाचरति "कर्तुः क्विप्०" [३।४।२५] इति क्विपि शतरि अत् सुवर्णवर्णत्वात् गरुडवदाचरत् नखानां मण्डलं समूहो विद्यते यस्य "अतोऽनेकस्वर०" [७।२।६] इति इनि अन्नखमण्डली पीत-रक्तयोरैक्यात् नखानां रक्तत्वात् स्वर्णकायोपमा । पुनः किं० दीपो दीपनशीलो यो दीपनं घञि दीपः कान्तिस्ताम् अञ्चति गच्छति श्रयतीति यावत् क्विपि दीप्रदीपाङ् अत्र सौ "अञ्चोऽनर्चायाम् " [४।२।४६] इति नलोपे “अचः" [१।४।६९] इति नोऽन्ते “ पदस्य" [२॥ ११८९] इति चलोपे, “ युज्-अञ्च-क्रुञ्चो०"[२।१।७१] इति के रूपम् । सिद्धये किं० 'शठ हिंसा-संक्लेशयोः' [२२२] इत्यतः शठति हिनस्ति जगदिति क्विपि ठस्य डत्वे ड-लयोरक्याल्लत्वे शल् जगद्विंसको यः, आत् कृष्णाद् भवतीति “ क्वचित्" Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148