________________
३५
['सिद्धये वधमानः स्तात् ताऽऽम्रायन्नखमण्डली ।
'प्रत्यूह शलभप्लोषे दीपदीपाङ्करायते ॥३३॥] [१ चतुर्थ्यन्तम् । २ वर्धम्+आनः वर्धमानः । वर्धम् प्रथमैकवचनम् । ऊ+ अर्ध+ म् = वर्धम् । यस्य नाम्नः अर्धभागे म् विद्यते इति अनेन पदेन सूचितम् । आनः प्रथमैकवचनम्--जीवनतुल्य इत्यर्थः । ३ क्रियापदम् । ४ ता+ आम्र + अस् = ताम्रास् + अन् + नखमण्डली = ताम्रास् + अन्नखमण्डली । पश्चात् सः रुत्वे यत्वे च ताम्रायन्नखमण्डली प्रथमैकवचनम् । ५ प्रति + ई + उ + ऊह-प्रत्यूहः अनेन पदेन 'थु' वर्णः सूचितः । प्रत्यूह इति प्रथमान्तं भिन्नं पदम् । ६ शल् + अभ + प्लोष् = शलभप्लोषे चतुर्ध्या एकवचनम् 'सिद्धये' इत्यस्य च विशेषणम् । ७ दीप्रदीप+अञ्च् = दीप्रदीपाङ् प्रथमैकवचनम् 'नखमण्डली' इत्यस्य विशेषणम् । ८ 'कु' + रास = कुराः-प्रथमैकवचनम् अनेन 'कु' वर्णः सूच्यते एवम् 'कु' तथा 'प्रत्यूह' इत्यनेन 'थु' तथा 'वर्धम्' इत्यनेन मध्यगः 'म्' । एतेषां संयोगे कु+म्+थु, ततः सन्धौ ‘कुन्थु' इति श्रीकुन्थुजिननामसूचनम् । ९ यतेः षष्ठी-एकवचनम् । विसर्गस्य अगणने 'यते' इति। यतेः आनः जीवनतुल्य इति भावः । ] ___ व्याख्या-कु इति वर्णेन युक्तो 'रासृङ् शब्दे' [८ ४९] इत्यतः कर्तरि क्विपि राः वाचको यस्य स कुराः 'कु' इति सिद्धम् । तथा प्रकृष्टं तकारं ईयते गच्छति किपि प्रतीः प्रतीः थकारस्तत्र उकारय ऊहो यस्मिन् स प्रत्यूहः श्लेषाद् विसर्गलोपः । एतावता 'कुथु' इति सिद्धम् । तथा अवेर्गत्यर्थात् कर्तरि क्विपि ऊर्गच्छन् अर्धे नाम्नः तुल्यभागे मध्ये इति यावत् म् मकारो यस्य स वर्धम् पश्चात् “म्नां धुड्०" [१।३।३९] इति नत्वे कुन्थुः श्रीकुन्थुजिनः । सिद्धये सम्पत्तये स्तात् । किं० · अन श्वसन प्राणने' [१०८९] इत्यनेर्धनि आनो जीवनं जीविततुल्य इत्यर्थः । कस्य ? यतेः साधोः । एकवचनं जातिविवक्षया साधूनामित्यर्थः । पुनः किं० ता ध्वनिर्देशनारूपा तया कृत्वा मधुरत्वात् आनं फलविशेषम् अस्यति तिरस्करोति क्विपि ताम्राः। पुनः किं० "अः कृष्णे विनतासूनौ” [ ] इत्यनेकार्थात् अः गरुडः तद्वदाचरति "कर्तुः क्विप्०" [३।४।२५] इति क्विपि शतरि अत् सुवर्णवर्णत्वात् गरुडवदाचरत् नखानां मण्डलं समूहो विद्यते यस्य "अतोऽनेकस्वर०" [७।२।६] इति इनि अन्नखमण्डली पीत-रक्तयोरैक्यात् नखानां रक्तत्वात् स्वर्णकायोपमा । पुनः किं० दीपो दीपनशीलो यो दीपनं घञि दीपः कान्तिस्ताम् अञ्चति गच्छति श्रयतीति यावत् क्विपि दीप्रदीपाङ् अत्र सौ "अञ्चोऽनर्चायाम् " [४।२।४६] इति नलोपे “अचः" [१।४।६९] इति नोऽन्ते “ पदस्य" [२॥ ११८९] इति चलोपे, “ युज्-अञ्च-क्रुञ्चो०"[२।१।७१] इति के रूपम् । सिद्धये किं० 'शठ हिंसा-संक्लेशयोः' [२२२] इत्यतः शठति हिनस्ति जगदिति क्विपि ठस्य डत्वे ड-लयोरक्याल्लत्वे शल् जगद्विंसको यः, आत् कृष्णाद् भवतीति “ क्वचित्"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org