________________
३४
वर्णधारकः अनेन 'षो' 'डली' इत्यनेन 'ड' 'शलभ' इत्यनेन च 'श' इत्येवं तेषां संयोगे 'षोडश' इति सिद्धम् तच्च श्रीशान्तिजिननामसूचकपदम् । ११ 'ई+प्रदीप+अङ्कुर' इत्यस्य नामधातौ आचारक्यति ईप्रदीपाङ्कुरायते ।]. . . . व्याख्या-र-लयोरैक्यात् प्रकृष्टेन उकारेण युक्तं षकारम् एति गच्छति क्विपि प्रोषेत् षो इति सिद्धम् । तथा डकारम् 'ई (ली)च् श्लेषणे' [१२४८] इत्यतो लीयते श्लिष्यति क्विपि डलीः । एतावता 'षोड' इति सिद्धम् तथा शकारस्य लभा यस्य स शलभः । एतावता 'षोडश' इति सिद्धम् । इति षोडशः श्रीशान्तिजिनः। सिद्धये कार्यनिष्पत्तये निमित्तभूतायै । ई पृथ्वी तस्या जलसेकादिना प्रदीप्यते "नाम्युपान्त्य०" [५ । १ । ५४] इति के ईप्रदीपो यः अङ्कुरो दूर्वाऽऽदिप्ररोहस्तद्वदाचरति क्यङि ईप्रदीपाङ्कुरायते । यथा दूर्वादिप्ररोहः शुभशकुनत्वात् कार्यसिद्धयै भवति, तथा श्रीशान्तिरपि सिद्धयै मुक्त्यै स्यादित्यर्थः । अत एव किं० वर्धमानो लोके वर्धमानशब्दः शकुनविशेषरूढः स इव वर्धमानशकुनसदृश इत्यर्थः । पुनः किं० तां लक्ष्मी अत्तयति मातृतया आख्याति णिजि विपि णिज्लोपे सौ "पदस्य" [२ । १। ८९] इति तलोपे तात् । तथा “ताम्राक्षः कोकिलः" हैम. अभिधानतिर्यकां० श्लो० १३२१] इति मालावचनात् ताम्राक्षः कोकिलः तस्य "ते लग् वा" [३ । २ । १०८] इत्युत्तरपदलोपात् ताम्रस्तेन असति दीप्यते विपि ताम्राः । तात् चासौ ताम्राश्च ईदृग् यः इः कामः तं अन्तयति क्षयं नयति क्विपि सौ "पदस्य" [२ । १। ८९] इति तलोपे "दीर्घङ्याब्०" [१ । ४ । ४५] इति सिलोपे तात्ताम्रायन् । कामो हि लक्ष्मी मातृतया आख्याति, कोकिलेन च कामो दीप्यते इति कविरूढेः ताम्रासित्यत् “सो रुः' [२ । १ । ७२] इति रुत्वे "रोर्यः [१ । ३। २६] इति यत्वे "स्वरे वा” (१ ।३ ।२४) इति यलोपे ताम्रायन् इति रूपसिद्धिः अन्यथा ताम्रास्यन् इतिरूपमनिष्टं स्यात् । पुनः किं० नखमन् 'नस्तु संविदि' [ ] इति वचनात् नो ज्ञानम् , खं सुखम्, ते तद् वामचुङ् धारणोच्छ्राय०' [६५६] इति मञ्चते धारयति क्विपि सौ “पदस्य" [२ । १। ८९] इति दैलोपे नखमन् । पुनः किं० प्रतिकूला तुरङ्गमादिरूपा ई लक्ष्मीः, तस्या ऊ रक्षणं तां जहाति त्यजति "आतो डः०" [५।१। ७६] इति डे प्रत्यूहः श्लेषाद् विसर्गाभावः ॥३२॥
. सिद्धये वर्धमानः स्तात् ताना यन्नखमण्डली । ... प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥३३॥
१ अत्र 'ताम्रासित्यत्' इत्यस्य स्थाने 'ताम्रास्+इ+अन्' इति वर्णावली समुचिता । २ "नो बुद्धौ ज्ञान-बन्धनयोः"-एकाक्षर सुधा० लो०२७ । ३ 'मञ्चते' इतिप्रकारके धातुरूपे दः नास्त्येव । अतः 'च' लोपे इति शुद्धम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org