________________
1
व्याख्या-धम् इत्यक्षरद्वयम् । 'असी गत्यादान०' (९३२) इति असते: क्विपि धः । तथा 'अव रक्षण०' [४८९] इति गत्यर्थाद् अवेः अचि अवो गच्छन् र् रकारों यस्मिन् स अवर् । एतावता धर्मः श्रीधर्मनाथः - इत्यर्थः:- नः अस्माकं सिद्धये स्तात् । 'उत्तरार्धगो यच्छब्दः पूर्वार्धे तच्छन्दं द्योतयति' इति यन्नखम् यस्य जातावेकवचनेन नखं नखानीत्यर्थः । ईः लक्ष्मीः आयते आगच्छति । ईः किं० ताम्रा अनुरक्ता । पुनः किं० कुः स्थानम् । कासाम् ? दीप्रदीपां कान्तीनाम् । पुनः किं० 'लड् विलासे' [२५४] डलयोरैक्याद् व्यत्यये डलति विलसति क्विपि डल् सविलासं स्यात् एवम् ईखते गच्छति क्विपि डलीः सविलासगामिनीत्यर्थः । यन्नखम् किं० प्रतिकूलम् ऊः कान्तिस्तस्या हसं लक्षणया प्रकाशं लान्ति “ आतो ड: ०" [५ । १ । ७६) इति डे प्रत्यूहशलानि भानि नक्षत्राणि यस्मिंस्तत् प्रत्यूहशलभं यत् प्रकृष्टं "उषा निशान्ते” [ हैमअभिधानचिन्ता • सामान्यकां ० श्लो० १५३६] मालायाम् अव्ययः प्रभातार्थे 'उषा' शब्द इति उषा प्रभातं रक्तवर्णत्वात् । तद्वत् इन्द्रे दीप्यते इति क्विपि "नो व्यञ्जनस्य ० [४ । २ । ४५] इति 'नू'लोपे प्रत्यूहशलभप्लोषेत् । प्रभातं हि रक्तं वर्ण्यते, नखा अपि रक्ता इति विशेषणसंगतिः । श-सयोरप्यैक्यं दृश्यते यथा
""
'श्रीशम्भवाऽऽखण्डलवन्द्य ! नन्द्याः " [ ] इत्यत्र श्रियः सम्भव उत्पत्तिः पक्षे श्रीशम्भवस्तृतीयजिन इति । कमिव ? आयते अमिव विष्णुमिव यथा अं विष्णुम् ई: लक्ष्मीः आयते तथा यन्नखमपीत्यर्थः ॥३१॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ॥३२॥
Jain Education International
[सिद्धये वर्धमानस्तात् ताम्र येन खमन् ड°ली । प्रत्यूह शलभ "लोपेदी" प्रदीपाङ्करायते ॥ ३२ ॥ ]
[१ चतुर्थ्यन्तम् । 'भवतु' इति क्रिया अध्याहार्या | २ वर्धमानः प्रथमैकवचनम् - शुभशकु नार्थवाचकम् - अष्टमङ्गलपट्टे 'वर्धमान 'नामा पदार्थः समायाति । ३ ता+अत्= तात्तात् इति कामदेवस्य विशेषणम् 'यन्' पदेन संबद्धम् । ४ 'ताम्रास्' 'ताम्र + अस्' - अत्र 'ताम्र' इति पद कोकिलसूचकम् । ५ इ + अन्त्=यन् अर्थात् ताम्रास् + इ + अन्त्= ताम्रायन् अत्र 'इ' कारस्य 'य' भावपूर्वमेव 'स' व्यञ्जनस्य रुत्वे तस्य च यत्वे यस्य च लोपे कृते सति पश्चात् इ + अन्त्-इ+अन् इत्यस्य 'यन्' इति निष्पाद्यम् अन्यथा न रूपसंगतिः । ६ न+ख + मञ्च् = नखमन् प्रथमेकवचनम् । ड+ली=इलीः ‘ड’वर्णधारकः प्रथमैकवचनम् विसर्गो न गण्यते । ततः डली । ताम्रायन्+ नखमन्+डली=ताम्रायन्नखमडण्ली । ८ प्रति + ई + ऊ + ह = प्रत्यूहः प्रथमेकवचनम् अत्रापि विवर्गो न गथनीयः । ९ शलभः इति प्रथमैकवचनम् 'श' वर्णधारकः । १० प्र+उ+ष+ इत् = प्रोषेत् प्रथमैकवचनम् ' षो'
For Private & Personal Use Only
6 ू
www.jainelibrary.org