________________
३६
[५।१।१७१] डे अभः कामः, तं प्लोषति दहति विचि गुणे शलभप्लोट् तस्यै शलभप्लोषे कामभेदिकायै चारित्ररूपायै इत्यर्थः ॥३३॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥३४॥ [सिद्धये वर्धमा नः स्तात् ताम्रा यन्-न-खमण्डली ।
प्रत्युहंशलभप्लोषे दी प्रदीपाङ्कुरायते ॥३४॥] . [१ सिद्धः-प्रसिद्धः- इति प्रथमैकवचनम् । २ अ+ईएः इति प्रथमान्तं पदम् । अनेन 'अ'वर्णः सुचितः । सिद्धस् +ए इति सः रुत्वे यत्वे च 'ए'वर्णस्य संयोजने सिद्धये इति । ३ वर्धमाः-ऊ+अव+=वर् । वर+धमाः वर्धमाः। आभ्यां पदाभ्याम् अकारयुक्त्तः 'र'कारः सूचितः। ततः 'ए' इत्यनेन आभ्यां पदाभ्यां च 'अर' इत्येवं श्रीअरजिनस्य नाम सूचितम् । ४ नः इति षष्ठी । ५ स्तात् इति क्रियापदम् । ६ ताम्र+अस-ताम्राः-अतिशयताम्रवर्ण:-प्रथमैकवचनम् । ७ यत्-व्रतम् । यत्+न+ख-यन्नख+मण्डल-यन्नखमण्डली-प्रथमैकवचनम् 'अर' इत्यस्य विशेषणम् । ८ प्रति+ऊ+ऊह+शलभ+प्लोषे-प्रत्यूहशलभप्लोषे सप्तम्या एकवचनम् । ९ दीप्र+दीप+क्यङ् +दीप्रदीपाय+क्विप्-दीप्रदीपा+आम्-दीप्रदीपाम् षष्ठ्या बहुवचनम् 'नः' इत्यस्य विशेषणम् । १० कु+र+आयत+ई-कुरायतेः विसर्गस्य अगणने कुरायते-एकारान्तं प्रथमैकवचनम्। 1
व्याख्या-अकारं ईयते गच्छति क्विपि ओः । तथा अवति गच्छति क्विपि ऊर्गच्छन् अकारो यस्मिन् स वः। यो रो रकारस्तं दधाति आतो डः०" [ ५ । १ । ७६ ] इति डे वर्धः । एश्चासौ वर्धश्च एवर्धः मा वाचको यस्य स एवर्धमाः श्रीअरनाथः नः अस्माकं सिद्धो ज्ञातः स्तात्-भवतु-इति सम्बन्धः । किं० ताम्रो रक्तवर्णस्तम् अस्यति विजकान्त्या क्विपि तोम्रः। पुनः किं० यन्नखमण्डली यमनं "क्रुत्सम्पदादिभ्यः क्विप्" [५ । ३ । ११४] इति क्विपि “गर्मा क्वौ” [४ । २ । ५८] इति मलोपे यत् व्रतम् नः संवित् खम् सुखम् तेषां मण्डलं समूहो विद्यते अस्येति “अतोऽनेकस्वरात्" [७ । २ । ६] इति इनि यन्नखमण्डली । नः किं० दीप्रो दीपः प्रदीपस्तद्वत् आचरामः क्यङि क्विपि षष्ठयाम् “लुगातोऽनापः" [२ । १ । १०७] इत्यालोपे दीप्रदीपाम् । कस्मिन् ? प्रति प्रतिकूला या ऊहिंसा, तस्या यः ऊहस्तर्कः सः (प्रत्यूहः) स एव शलभः तस्य प्लोषे विनाशे प्रत्यूहशलभप्लोषे। अयमर्थः-हिंसारूपशलभानां प्लोषे दीपवत् भाचरताम् इति । जिनः कि० कुत्सितो रः कामस्तस्मादायतं उपरमस्तम् । 'ईच् गतो' [१२५२] इत्यतः विपि कुरायतेः श्लेषाद् विसर्गलोपः ॥ ३४ ॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली ।
प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥३५॥ १ अब ताम्र अस् इति जाते “ताम्रास-ताम्राः इति उचितम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org