________________
३७
[सिद्धये वध ! मा ! ३: स्तात् "ताऽऽम्रा यन्नखमण्डली ।
प्रत्यूह-शल-भ-प्लोषे दीदीपाङ्क रायते" ॥३५॥] [१ सिद्धये चतुर्थ्यन्तम् । २ वा+ऋद्ध-वर्ध ! अत्र ऋद्ध' इति संबोधनम् । 'वा' निश्चयार्थः तस्य च 'स्तात् वा'-'स्तात् एव' इत्येवंभावः । ‘स्तात्' क्रियापदम् । ३ म+असमाः एतदपि संबोधनैकवचनम् । इदं च मकारसूचकम् । ४ नः षष्ठी । ५ त+आम्+र+अत्-ताम्रास-ताम्राः विसर्गस्य अगणने ताम्रा इति प्रथमैकवचनम् । ६ 'य'नाम्नः आचारार्थे क्विपि यन् प्रथमैकवचनम् । ७ अखमण्डलीः अ+ख+मन्+ड-ली: अखमण्डलीः अनेन च 'ल्ली' इति सूच्यते। 'मास्'पदेन अनेन च पदेन 'मल्ली' इति श्रीमल्लिजिनस्य नाम सूचितम् । ८ प्रत्यूह+शर+भ+प्लोषे सप्तम्यन्तम् । रस्य लत्वे प्रत्यूहशलभप्लोषे । ९ दीप्रदीपाम् षष्ठीबहुवचनम् । १० कुः प्रथमैकवचनम् । ११ आ+यत+ई-आयते । कुः+आयते-कुरायते ।]
__ व्याख्या-'ऋक् गतौ' [११३५] 'गत्यर्था ज्ञानार्थाः' इति अरणं क्विपि तोऽन्ते ऋत् ज्ञानं केवलज्ञानमित्यर्थः यद्वा 'ऋति (त) घृणा-गति-स्पर्धेषु' [२८७] इति, अतः अर्तनं ऋत् ज्ञानं तद् दधाति डे ऋद्धो जिनस्तस्य सं० हे ऋद्ध ! त्वं नः अस्माकं सिद्धये मुक्तये स्ताद् भवेति संबन्धः । वा एवार्थे स्तादेवेत्यर्थः । त्वं किं० मकारेण असति शोभते नामद्वारा इति क्विपि माः, तस्य सं० हे माः ! एतावता म इति सिद्धम् । तथा अकारेण “ख शून्ये" [ ] इत्येकाक्षरवचनात् खः शून्यो मङ्गतीति क्विपि मन् गच्छन् 'डो डकारो यस्मिन् स अखमण्डः ईदृशो लीकारो यस्य नाम्नि स अखमण्डलीः । ड-लयोरक्याल्लत्वे एतावता 'मल्ली' इति सिद्धम् । मल्लिजिनस्य स्त्रीरूपावतारत्वात् "इतोऽक्त्यर्थात्" [२ । ४ । ३२] इति ङ्यां मल्ली श्रीमल्लिजिनस्तस्य सं० । त्वं किं. "तस्तु तस्करे" [ ] इत्येकाक्षरवचनात् तस्तकरः । त इव तः चौरसदृशो निशायामेव प्रायः प्रकटीभावित्वात् तथा आमो राजयक्ष्मादिरोगस्तं करोतीति णिजि क्विपि भ्वादेरभावात् "मो नो म्वोश्च" [२।१ । ६७] इति नत्वाभावे आम् यक्ष्मादिरोगकृत् । तश्चासौ आम् च ताम् यो रः कामस्तम् अस्यति क्विपि ताम्राः पश्चाद् " अवर्ण-भो-भगो० " [१ । ३ । २२] इति रलोपः । पुनः किं० “यस्तु मातरिश्वनि" [ ] इत्येकाक्षरवचनाद् यो वायुस्तद्वदाचरतीति “कर्तुः क्वि०":[३ । ४।२५] इति क्विपि धातुत्वे शतरि सौ नागमे यन् वायुरिवाचरन् । कस्मिन् । प्रत्यूहा विघ्नास्त एव 'शरं जले" [ ] इत्यनेकार्थवचनाद् र-लयोरक्यात् शलं जलम् , तेन भान्ति शोभन्ते "क्वचित्" [५ । १ ।१७१] इति डे शलभा मेघास्तेषां प्लोषे विनाशे । पुनः किं. कुः स्थानम् , कासाम् ? दीप्राणां दीपां कान्तीनाम् । पुनः किं. "आ विधातरि मन्मथे [ ] इति वचनात् आ मन्मथस्तस्माद् यत उपरमस्तस्य ई भूमिः स्थानमित्यर्थः ॥३५॥
१ 'इ'सूचकः अयं डकारः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org