________________
३८
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | प्रत्यूहशलभप्लोपे दीप्रदीपाङ्कुरायते ||३६||
[सिद्धये वर्धमानः स्तात् ताऽऽम्रा येन्नख - मण्डली | मैत्यूहशल-भ-प्लोषे 'दीपू रदी पाङ्कुरायते ॥३६॥]
[ १ मुनिः मुनिसुव्रतो जिनः सिद्धये नः स्तात् इति अन्वयः । अत्र 'सिद्धये' इति चतुर्थ्यन्तम् । 'नः' इति षष्ठी । स्तात् इति क्रियापदम् । २ उ + अर्ध = वर्ध अनेन पदेन 'उ' सूचितः । म+आ+असू=मास् । अनेन पदेन 'म्' सूचितः । वर्ध+माः = वर्धमाः- प्रथमान्तम् एकवचनम् । एवम् आभ्यां पदाभ्यां म् + उ = 'मु' इति निष्पन्नम् । 'यन्' इति पदेन सूचितेन 'नि'शब्देन सह 'मु' शब्दस्य संयोगे 'मुनि' इति पदं श्रीमुनिसुव्रतजिननामसूचकम् जातम् । ३ ता+अस्= ताम्रास्+ अन् =ताम्रायन् । अत्र सस्य रुत्वे रश्च यत्वे ताम्रायन् । अत्र 'यन्' 'पदेन' 'नि' सूचितः । ४ अख + मण्+डलीः = अखमण्डलीः यन् + अखमण्डलीः अत्र अकारे परे 'न्' इत्यस्य १ । ३ । २७ । इति सूत्रेण द्वित्वे विसर्गस्य अगगने च यन्नखमण्डली । ५ प्रत्यूह+शल+भ+प्लोषे प्रत्यूहशलभ'लोषे सप्तम्यन्तम् । ६ दीपू दीप्यमानः । ७ दीप्+रदी दीदी प+अङ्कुर+अ=पाङ्कुराः । ततः एतयोः पदयोः संयोजने विसर्गस्य अविवक्षणे च दीप्रदीपाङ्कुराः । ८ अत+इ=अते । अस्य प्रथमैकवचनम् अतेः ततः ‘अते' पदात् 'पाङ्कुरा' पदस्य अन्त्यसस्य रुत्वे च यत्वे पाङ्कुरायते ।]
व्याख्या–उकारः अर्धः अंशो यस्य स वर्धः ईदृशो म् मकारस्तम्, आङ्पूर्वादसतेः आसति अङ्गीकरोति क्विपि वर्धमाः एतावता 'मु' इति सिद्धम् । तथा इकारम् अषति रक्षति विचि ऊडभावे “य्वोः प्वय्०" [४ । ४ । १२१] इति वलोपे येषां मते विचो व्यञ्जनकार्यं न स्यात् तेषां वकारस्थितौ 'यव' ईश 'नू' इति व्यञ्जनं नानि यस्य स यन् पश्चान्नकाररूपघोषवति निमित्तभूते “व्योः” [१ । ३ । २३] इति व्लोपः । एतावता मुनिरिति सिद्धम् । "ते लुग् वा” [ ३ । २ । १०८ ] इत्युत्तरपदलोपान्मुनिः श्रीमुनिसुव्रतजिनो नः अस्माकं सिद्धये स्तादिति संबन्धः । किं० ता फलादिलक्ष्मीः तया युक्तो यो आम्रश्चूतवृक्षो नीलवर्णत्वात्, तद्वद् असति शोभते विपि तात्राः । पुनः किं० अखम् अज्ञानम् तस्मिन् मन्दान् सालस्यान् श्रोतॄन् करोति णिजि क्विपि तल्लोपे “पदस्य" [२ । १ । ८९] इति दलोपे अखमन् यो डो ध्वनिस्तं लीयते श्लिष्यति क्विपि अखमण्डलीः | अत्र "म्नां धुड० ' [१ । ३ । ३९] इति निमित्तस्यैव पञ्चमे 'मण्डली' इति शब्दो वर्तते । अत्र 'अखमण्ड' इत्यत्र तु मन्दयतीति मन् इति न् तस्य पदान्तत्वात् णत्वाभावेऽपि न-णयोरैक्यात् न दोष इति । एवमस्मिन् प्रकरणे सम्भवे सर्वत्राप्यूह्यम् । पुनः किं० दीप्यते इति
"1
Jain Education International
१ अखमन् । डलीः इत्यस्य समग्रस्यैव पदसंज्ञायां विवक्षितायाम् 'न्' इत्यस्य अपदान्तत्वात् सूचितसूत्रेण 'न्' इत्यस्य ण् । यदि पदसंज्ञा विवक्षिता तदा नूणोः एकत्वं ज्ञेयम् इति ग्रन्थकार एवं सूचयति ।
For Private & Personal Use Only
www.jainelibrary.org