Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 67
________________ ३८ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | प्रत्यूहशलभप्लोपे दीप्रदीपाङ्कुरायते ||३६|| [सिद्धये वर्धमानः स्तात् ताऽऽम्रा येन्नख - मण्डली | मैत्यूहशल-भ-प्लोषे 'दीपू रदी पाङ्कुरायते ॥३६॥] [ १ मुनिः मुनिसुव्रतो जिनः सिद्धये नः स्तात् इति अन्वयः । अत्र 'सिद्धये' इति चतुर्थ्यन्तम् । 'नः' इति षष्ठी । स्तात् इति क्रियापदम् । २ उ + अर्ध = वर्ध अनेन पदेन 'उ' सूचितः । म+आ+असू=मास् । अनेन पदेन 'म्' सूचितः । वर्ध+माः = वर्धमाः- प्रथमान्तम् एकवचनम् । एवम् आभ्यां पदाभ्यां म् + उ = 'मु' इति निष्पन्नम् । 'यन्' इति पदेन सूचितेन 'नि'शब्देन सह 'मु' शब्दस्य संयोगे 'मुनि' इति पदं श्रीमुनिसुव्रतजिननामसूचकम् जातम् । ३ ता+अस्= ताम्रास्+ अन् =ताम्रायन् । अत्र सस्य रुत्वे रश्च यत्वे ताम्रायन् । अत्र 'यन्' 'पदेन' 'नि' सूचितः । ४ अख + मण्+डलीः = अखमण्डलीः यन् + अखमण्डलीः अत्र अकारे परे 'न्' इत्यस्य १ । ३ । २७ । इति सूत्रेण द्वित्वे विसर्गस्य अगगने च यन्नखमण्डली । ५ प्रत्यूह+शल+भ+प्लोषे प्रत्यूहशलभ'लोषे सप्तम्यन्तम् । ६ दीपू दीप्यमानः । ७ दीप्+रदी दीदी प+अङ्कुर+अ=पाङ्कुराः । ततः एतयोः पदयोः संयोजने विसर्गस्य अविवक्षणे च दीप्रदीपाङ्कुराः । ८ अत+इ=अते । अस्य प्रथमैकवचनम् अतेः ततः ‘अते' पदात् 'पाङ्कुरा' पदस्य अन्त्यसस्य रुत्वे च यत्वे पाङ्कुरायते ।] व्याख्या–उकारः अर्धः अंशो यस्य स वर्धः ईदृशो म् मकारस्तम्, आङ्पूर्वादसतेः आसति अङ्गीकरोति क्विपि वर्धमाः एतावता 'मु' इति सिद्धम् । तथा इकारम् अषति रक्षति विचि ऊडभावे “य्वोः प्वय्०" [४ । ४ । १२१] इति वलोपे येषां मते विचो व्यञ्जनकार्यं न स्यात् तेषां वकारस्थितौ 'यव' ईश 'नू' इति व्यञ्जनं नानि यस्य स यन् पश्चान्नकाररूपघोषवति निमित्तभूते “व्योः” [१ । ३ । २३] इति व्लोपः । एतावता मुनिरिति सिद्धम् । "ते लुग् वा” [ ३ । २ । १०८ ] इत्युत्तरपदलोपान्मुनिः श्रीमुनिसुव्रतजिनो नः अस्माकं सिद्धये स्तादिति संबन्धः । किं० ता फलादिलक्ष्मीः तया युक्तो यो आम्रश्चूतवृक्षो नीलवर्णत्वात्, तद्वद् असति शोभते विपि तात्राः । पुनः किं० अखम् अज्ञानम् तस्मिन् मन्दान् सालस्यान् श्रोतॄन् करोति णिजि क्विपि तल्लोपे “पदस्य" [२ । १ । ८९] इति दलोपे अखमन् यो डो ध्वनिस्तं लीयते श्लिष्यति क्विपि अखमण्डलीः | अत्र "म्नां धुड० ' [१ । ३ । ३९] इति निमित्तस्यैव पञ्चमे 'मण्डली' इति शब्दो वर्तते । अत्र 'अखमण्ड' इत्यत्र तु मन्दयतीति मन् इति न् तस्य पदान्तत्वात् णत्वाभावेऽपि न-णयोरैक्यात् न दोष इति । एवमस्मिन् प्रकरणे सम्भवे सर्वत्राप्यूह्यम् । पुनः किं० दीप्यते इति "1 Jain Education International १ अखमन् । डलीः इत्यस्य समग्रस्यैव पदसंज्ञायां विवक्षितायाम् 'न्' इत्यस्य अपदान्तत्वात् सूचितसूत्रेण 'न्' इत्यस्य ण् । यदि पदसंज्ञा विवक्षिता तदा नूणोः एकत्वं ज्ञेयम् इति ग्रन्थकार एवं सूचयति । For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148