Book Title: Ratna karavatarikadya sloka satarthi Author(s): Jinmanikyavijay, Bechardas Doshi Publisher: L D Indology AhmedabadPage 63
________________ ३४ वर्णधारकः अनेन 'षो' 'डली' इत्यनेन 'ड' 'शलभ' इत्यनेन च 'श' इत्येवं तेषां संयोगे 'षोडश' इति सिद्धम् तच्च श्रीशान्तिजिननामसूचकपदम् । ११ 'ई+प्रदीप+अङ्कुर' इत्यस्य नामधातौ आचारक्यति ईप्रदीपाङ्कुरायते ।]. . . . व्याख्या-र-लयोरैक्यात् प्रकृष्टेन उकारेण युक्तं षकारम् एति गच्छति क्विपि प्रोषेत् षो इति सिद्धम् । तथा डकारम् 'ई (ली)च् श्लेषणे' [१२४८] इत्यतो लीयते श्लिष्यति क्विपि डलीः । एतावता 'षोड' इति सिद्धम् तथा शकारस्य लभा यस्य स शलभः । एतावता 'षोडश' इति सिद्धम् । इति षोडशः श्रीशान्तिजिनः। सिद्धये कार्यनिष्पत्तये निमित्तभूतायै । ई पृथ्वी तस्या जलसेकादिना प्रदीप्यते "नाम्युपान्त्य०" [५ । १ । ५४] इति के ईप्रदीपो यः अङ्कुरो दूर्वाऽऽदिप्ररोहस्तद्वदाचरति क्यङि ईप्रदीपाङ्कुरायते । यथा दूर्वादिप्ररोहः शुभशकुनत्वात् कार्यसिद्धयै भवति, तथा श्रीशान्तिरपि सिद्धयै मुक्त्यै स्यादित्यर्थः । अत एव किं० वर्धमानो लोके वर्धमानशब्दः शकुनविशेषरूढः स इव वर्धमानशकुनसदृश इत्यर्थः । पुनः किं० तां लक्ष्मी अत्तयति मातृतया आख्याति णिजि विपि णिज्लोपे सौ "पदस्य" [२ । १। ८९] इति तलोपे तात् । तथा “ताम्राक्षः कोकिलः" हैम. अभिधानतिर्यकां० श्लो० १३२१] इति मालावचनात् ताम्राक्षः कोकिलः तस्य "ते लग् वा" [३ । २ । १०८] इत्युत्तरपदलोपात् ताम्रस्तेन असति दीप्यते विपि ताम्राः । तात् चासौ ताम्राश्च ईदृग् यः इः कामः तं अन्तयति क्षयं नयति क्विपि सौ "पदस्य" [२ । १। ८९] इति तलोपे "दीर्घङ्याब्०" [१ । ४ । ४५] इति सिलोपे तात्ताम्रायन् । कामो हि लक्ष्मी मातृतया आख्याति, कोकिलेन च कामो दीप्यते इति कविरूढेः ताम्रासित्यत् “सो रुः' [२ । १ । ७२] इति रुत्वे "रोर्यः [१ । ३। २६] इति यत्वे "स्वरे वा” (१ ।३ ।२४) इति यलोपे ताम्रायन् इति रूपसिद्धिः अन्यथा ताम्रास्यन् इतिरूपमनिष्टं स्यात् । पुनः किं० नखमन् 'नस्तु संविदि' [ ] इति वचनात् नो ज्ञानम् , खं सुखम्, ते तद् वामचुङ् धारणोच्छ्राय०' [६५६] इति मञ्चते धारयति क्विपि सौ “पदस्य" [२ । १। ८९] इति दैलोपे नखमन् । पुनः किं० प्रतिकूला तुरङ्गमादिरूपा ई लक्ष्मीः, तस्या ऊ रक्षणं तां जहाति त्यजति "आतो डः०" [५।१। ७६] इति डे प्रत्यूहः श्लेषाद् विसर्गाभावः ॥३२॥ . सिद्धये वर्धमानः स्तात् ताना यन्नखमण्डली । ... प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥३३॥ १ अत्र 'ताम्रासित्यत्' इत्यस्य स्थाने 'ताम्रास्+इ+अन्' इति वर्णावली समुचिता । २ "नो बुद्धौ ज्ञान-बन्धनयोः"-एकाक्षर सुधा० लो०२७ । ३ 'मञ्चते' इतिप्रकारके धातुरूपे दः नास्त्येव । अतः 'च' लोपे इति शुद्धम् । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148