Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad
View full book text
________________
ई कामं 'वर्धन (ण) छेदन-पूरणयोः' हैमधातुपा० चुरादि० ९४] इति वर्धयति छिनत्ति अचि अणि व. इवर्धस्तस्य सं० । तथा कौ पृथिव्यां राजति "क्वचित्" [५ । १ । १७१] डे कुरः 'अयि गतौ' (७९०) इत्यतः "इ-कि-श्तिव्०" [५ । ३ । १३८] इति तिवि अयतिर्ज्ञानं यस्य तस्य सं० हे कुरायते ! । त्वं “अमा त्वामा" [२ । १ ।। २४] . इति माssदेशे मा प्रति मां प्रति सिद्धय-सिद्धिं कुर्वित्यर्थः । मां० किं० ताश्चौरा रागादयस्तैन म्लायति "तन्-व(व्य)धी" [५ । १.। ६४] इति णे ताऽम्लायस्तं ताम्लायम् । पुनर्मी किं० नखमिव नखम् अतिलघिष्ठमित्यर्थः । पुनमी किं० ई कामं प्रद्यति क्विपि "Wञ्जनेऽयपि" [४ । ३ । ९७] इति 'ई'कारे ईप्रदीर्जिनस्तेन हेतुभूतेन पुनामि आत्मानं विचि ईप्रदीपौः तं ईप्रदीपाम् । अत्र विचि गुणे अमि “आ अम् शसोऽता" [१ । ४ ।७५] इति आकारे "समानादमोऽतः” [१ । ४ । ४६] इति अल्लोपे रूपसिद्धिः । त्वं किं० दिनं करोतीति णिजि क्विपि दी सूर्यः स इव । कस्मिन् ? ऊहं विचारं 'शश् हिंसायाम्' [१५३१] शुणाति अचि ऊहशरा रागादयो वैरिणस्त एव भानि नक्षत्राणि, तेषां प्लोषे यथा सूर्येण भानि व्यपनीयन्ते, तथा त्वया रागादयोऽपि. इत्यर्थः ॥३०॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाडुरायते ॥३१॥ [ सिद्धयेऽवर्धमा नैः स्तोत् ताम्रा यन्नखमण्ड ली ।
प्रत्यूहशैल-भ-प्लोषे" दीप दीपां कुँरायते" ॥३१॥] [१ चतुर्थ्या एकवचनम् । २ अवर् प्रथमैकवचनम् ''कारयुक्त इत्यर्थः । ३ धमाः प्रथमैकवचनम् ध+म्+अस्-धमस् ततः धमाः धकारमकाराभ्यां सहितः अर्थात् 'अवर' शब्देन 'र'युक्तः तथा 'धमस्'शब्देन धकार-मकारसहितः एवं च 'धर्म' इति नाम श्रीधर्मनाथजिनस्य सुचितम् । ४ षष्ठी। ५ आशीर्वादसूचकं पञ्चम्याः तुप्रत्ययस्य 'तात्' आदेशे तृतीयपुरुषैकवचने क्रियापदम् । ६ प्रथमाया एकवचनम् 'ई' इत्यस्य लक्ष्मीसूचकस्य विशेषणम् । ७ यन्नखम् कर्मकारकरपम् द्वितीयाया एकवचनम् । अस्य 'आयते' क्रियया अन्वयः-यन्नखम् आयते-आगच्छति इति । ८ अम् इत्यपि कर्मकारकम् उपमानरूपम् यथा अम्-विष्णुम्-ई आगच्छति तथा यन्नखम् ई आगच्छति इति । अम्+डली इत्यत्र डयोगे 'म्' इत्यस्य 'ण' इति अनुनासिकः [ हैम० १ । ३ । १४] सूत्रेण । ९ डली+ई:-डलीः अत्र विसर्गस्य अगणने 'डली' इति ज्ञेयम् । १० प्रति+ऊ+हस+ल+भप्रत्यूहसल-भ । 'स'स्य 'श'ध्वनौ प्रत्यूहशलभ इति । ११ प्र+उषा+ इन्ध-प्रोषेत् इति । 'प्रोषेत्' अत्र अन्त्यव्यञ्जनस्य नोच्चारणम् अतः प्रोषे इति पदम् । 'यन्नखम् इत्यस्य विशेषणम् । 'र'स्य 'ल'त्वे 'प्लोषे'इति । १२ दीप्रदीपाम् षष्ठीबहुवचनम् । १३ 'कुः प्रथमैकवचनम् दीप्रदीपां कुः इति अन्वयः । 'ताम्रा' इत्यस्य विशेषणम् । १४ आयते-आत्मनेपदिनः 'अय्' धातोः 'आङ'उपसर्गपूर्वकस्य तृतीयपुरुषैकवचनम् । ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148