Book Title: Ratna karavatarikadya sloka satarthi
Author(s): Jinmanikyavijay, Bechardas Doshi
Publisher: L D Indology Ahmedabad

Previous | Next

Page 59
________________ प्रतिपूर्वाद् दीप्त्यर्थात् कर्तरि क्विपि ऊटि प्रत्यूः दीप्यमानो यो हसः प्रकाशः तस्य लभा प्राप्तिर्यस्य स प्रत्यूहशलभः श्लेषाद् विसर्गलोपः । नः किं० दीपा दीपनशीला दीपनं "भ्यादिभ्यो वा" [५ । ३ । ११५] इति क्विपि दीप् कान्तियेषां तेषां दीप्रदीपाम् ॥२८॥ सिंद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥२९॥ [ 'सिद्धयेवैर्धमाऽऽनस्ताऽत्ता म्लायन् न खमण्ड ! 'ली। - प्रत्यूहशलभ लोषेद् ईदीपाऽकु "रायते ॥२९॥] [१ सिद्धा+ई-सिद्धे तृतीयैकवचने सिद्धया । २ इव्+अर्धम ! संबोधनैकवचनम् । 'इव्' इत्यनेन 'वि' सूचितः 'अर्धम' इत्यनेन 'म' सूचितः ततः 'विम' इति निष्पन्नम् । ३ न+अस्ता -अनस्ता-आनस्त+अत्ता-आनस्ताऽत्ता प्रथमैकवचनम् । ४ म्लायन् शतृप्रत्ययान्तं प्रथमैकवचनम् न निषेधवाची अर्थात् न म्लायन् म्लानिमुक्तः इत्यर्थः । ५ खमण्ड ! संबोधनैकवचनम् । ६ लीः 'ल'सूचकम् संबोधनैकवचनम् । विसर्गस्य अगणने 'ली' इति । 'ल'पदप्राप्तये 'ली' पदकल्पनापेक्षया 'ला' धातोः कर्तरि प्रत्यये 'ल' इति निष्पाद्य ततः साक्षात् 'ल'वर्णस्य उपलब्धिः सुलभा । मोक्षलक्ष्मीम इति अध्याहृत्य ताम लाति गृह्णाति इति 'ल' इत्येवम् अर्थस्यापि सौगम्यम् । +कह+शर+भप-प्रत्यूहशरभ प्रथमैकवचनम् । 'ल' उच्चारणे प्रत्यूहशलभए । ८ लोष+इद् =लोषेद् प्रथमैकवचनम् । ९ ई+प्रदीप ! ईप्रदीप ! संबोधनकवचनम् । १० अकु-अनिन्दितम्क्रियाविशेषणम् । ११ रायते अङ्गीक्रियते क्रियापदम् प्रथममेव पूर्वोक्तेन 'सिद्धया' इति पदेन 'रायते' इत्यस्य संबन्धः। एवम् 'प्रत्यूहशलभप+लोषेदु ईप्रदीप+अकु+रायते' इत्येषां सर्वेषां पदानां संयोगे अनुस्वारस्य उच्चारणे वृद्धि नीते 'प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते' इति निष्पन्नम् । - व्याख्या-इकारेण युक्तो व् वकारो नाम्नि यस्य स ईव् । तथा अर्ध मध्यभागे भवो मः मकारो यस्य स अर्थमः इव् चासौ अर्धमश्च इवर्धमः तस्य सं० । एतावता 'विम्' इति सिद्धम् । लकारं इच्छतीति क्यनि “क्यनि" [४।३।११२] इति ईकारे क्विपि “अतः" [४ । ३। ८२] इत्यल्लोपे “य्वोः प्वय्" [४ । ४ । १२१] इति यलोपे लीः तस्य सम्बो० । एतावता 'विमल' इति सिद्धम् । हे विमलनाथ ! हे खमण्ड ! खानां नृपाणां मण्डनं मण्डो भूषा यस्मात् स खमण्डः, तस्य सम्बो० । हे ईप्रदीप ! ई केवलज्ञानलक्ष्मीः तया प्रदीप्यते इनि "नाम्युपान्त्य." [५।११५४] इनि के ईप्रदीपः तस्य सम्बो० । भवान्-सिद्धा शाश्वती चासौ ई मुक्तिलक्ष्मीश्च सिद्धे तया सिद्वया मुक्तिलदम्या अकु अकुत्सितं यथा स्यात् तथा-रायते लायते १ 'इव्' शब्दः 'वि'शब्दसूचकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148