________________
प्रतिपूर्वाद् दीप्त्यर्थात् कर्तरि क्विपि ऊटि प्रत्यूः दीप्यमानो यो हसः प्रकाशः तस्य लभा प्राप्तिर्यस्य स प्रत्यूहशलभः श्लेषाद् विसर्गलोपः । नः किं० दीपा दीपनशीला दीपनं "भ्यादिभ्यो वा" [५ । ३ । ११५] इति क्विपि दीप् कान्तियेषां तेषां दीप्रदीपाम् ॥२८॥
सिंद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्करायते ॥२९॥ [ 'सिद्धयेवैर्धमाऽऽनस्ताऽत्ता म्लायन् न खमण्ड ! 'ली। - प्रत्यूहशलभ लोषेद् ईदीपाऽकु "रायते ॥२९॥] [१ सिद्धा+ई-सिद्धे तृतीयैकवचने सिद्धया । २ इव्+अर्धम ! संबोधनैकवचनम् । 'इव्' इत्यनेन 'वि' सूचितः 'अर्धम' इत्यनेन 'म' सूचितः ततः 'विम' इति निष्पन्नम् । ३ न+अस्ता -अनस्ता-आनस्त+अत्ता-आनस्ताऽत्ता प्रथमैकवचनम् । ४ म्लायन् शतृप्रत्ययान्तं प्रथमैकवचनम् न निषेधवाची अर्थात् न म्लायन् म्लानिमुक्तः इत्यर्थः । ५ खमण्ड ! संबोधनैकवचनम् । ६ लीः 'ल'सूचकम् संबोधनैकवचनम् । विसर्गस्य अगणने 'ली' इति । 'ल'पदप्राप्तये 'ली' पदकल्पनापेक्षया 'ला' धातोः कर्तरि प्रत्यये 'ल' इति निष्पाद्य ततः साक्षात् 'ल'वर्णस्य उपलब्धिः सुलभा । मोक्षलक्ष्मीम इति अध्याहृत्य ताम लाति गृह्णाति इति 'ल' इत्येवम् अर्थस्यापि सौगम्यम् ।
+कह+शर+भप-प्रत्यूहशरभ प्रथमैकवचनम् । 'ल' उच्चारणे प्रत्यूहशलभए । ८ लोष+इद् =लोषेद् प्रथमैकवचनम् । ९ ई+प्रदीप ! ईप्रदीप ! संबोधनकवचनम् । १० अकु-अनिन्दितम्क्रियाविशेषणम् । ११ रायते अङ्गीक्रियते क्रियापदम् प्रथममेव पूर्वोक्तेन 'सिद्धया' इति पदेन 'रायते' इत्यस्य संबन्धः। एवम् 'प्रत्यूहशलभप+लोषेदु ईप्रदीप+अकु+रायते' इत्येषां सर्वेषां पदानां संयोगे अनुस्वारस्य उच्चारणे वृद्धि नीते 'प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते' इति निष्पन्नम् ।
- व्याख्या-इकारेण युक्तो व् वकारो नाम्नि यस्य स ईव् । तथा अर्ध मध्यभागे भवो मः मकारो यस्य स अर्थमः इव् चासौ अर्धमश्च इवर्धमः तस्य सं० । एतावता 'विम्' इति सिद्धम् । लकारं इच्छतीति क्यनि “क्यनि" [४।३।११२] इति ईकारे क्विपि “अतः" [४ । ३। ८२] इत्यल्लोपे “य्वोः प्वय्" [४ । ४ । १२१] इति यलोपे लीः तस्य सम्बो० । एतावता 'विमल' इति सिद्धम् । हे विमलनाथ ! हे खमण्ड ! खानां नृपाणां मण्डनं मण्डो भूषा यस्मात् स खमण्डः, तस्य सम्बो० । हे ईप्रदीप ! ई केवलज्ञानलक्ष्मीः तया प्रदीप्यते इनि "नाम्युपान्त्य." [५।११५४] इनि के ईप्रदीपः तस्य सम्बो० । भवान्-सिद्धा शाश्वती चासौ ई मुक्तिलक्ष्मीश्च सिद्धे तया सिद्वया मुक्तिलदम्या अकु अकुत्सितं यथा स्यात् तथा-रायते लायते
१ 'इव्' शब्दः 'वि'शब्दसूचकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org