________________
३१
अङ्गीक्रियते इत्यर्थः । भवान् किं. म्लायति शतरि म्लायन् कथम् न-म्लानिमुक्त इत्यर्थः । कथम्भूतः आनस्तात्ता 'अष। असी गत्यादानयोश्च' [९३१, ९३२] इति चानुकृष्टदीप्त्यर्थाद् असतेः क्विपि भावे तलि अस्ता, पश्चान्ना योगे अनस्ता अदीप्तिर्मालिन्यमित्यर्थः । तस्या अयं "तस्येदम्" [६ । ३ । १६०] इत्यणि आनस्तः स चासौ ‘अदं प्सांक् भक्षणे' [१०५९] अत्तीति तृचि अत्ता च भक्षकश्च विनाशकश्चेत्यर्थः । आनस्तात्ता अदीप्तिविनाशक इत्यर्थः । पुनर्भवान् किं० प्रत्यूहशलभप् प्रकृष्टः तानां चौराणाम् अपत्यानि “अतः०” [६ । १ । ३१] इञि तयश्चौरपुत्राः, तेषाम् ऊहो विचारस्तस्य र-लयोरैक्यात् शरो विनाशस्तस्मिन् भपं चन्द्रम् आख्याति णिजि क्विपि प्रत्यूहशलभम् । चन्द्रोद्गमे हि चौराणां चौर्यविषय ऊहोऽपि नश्यति । तस्मिन् चौराणां चौर्य कर्तुमशक्यत्वात् । अत एव 'लूप् मूष स्तेये' [५०१] इति लोषन (णं) घनि लोषः चौर्यम् तस्य अयनं क्तौ इतिर्गमनं तत् करोति णिजि क्विपि लोषेत् ॥२९॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥३०॥ [सिद्धयेवंर्ध ! माऽनॆस्तात् ! तोऽम्रायं नर्खम् अण्डली ।
'प्रत्यूहशरभप्लोषे दीदीपाकैराऽयते ॥३०॥] [१ सिद्धय इति क्रियापदम् - पञ्चम्या 'हि' प्रत्यये - नामधातुरूपम् । २ इवर्ध ! संबोधनैकवचनम् । ३ मा 'माम्' इत्यर्थे द्वितीयैकवचनम् । ४ अनस्+तात्. = अनस्तात् संबोधनैकवचनम् । 'अनस्' इत्यनेन 'अन्' पदम् । 'तात्' इत्यनेन 'त' ‘पदम्' द्वयोः संयोगे 'अन्त' इति जातम् । ५ त+अम्लायम्=ताम्लायम् द्वितीयैकवचनम् 'मा' इत्यस्य विशेषणम् । लस्य रत्वे ताम्रायम् । ६ नखम् 'मा' इत्यस्य विशेषणम् द्वितीयकवचनम् । ७ अं+डली: संबोधनम् अनेन 'अं' इति वर्णः सूच्यते, पूर्वोक्ते 'अन्+त' पदे 'अं' इति मध्ये प्रविष्टे 'अनन्त' इति जातम् अनन्तनाथजिनस्य सूचकम् । ८ 'प्रति'. इति 'प्रतिसूचकम् अव्ययम् । ९ ऊह+शर+भ+प्लोषे ऊहशरभप्लोषे रस्य लत्वे 'प्रति' पदेन संयोगे प्रत्यूहशलभप्लोषे सप्तम्येकवचनम् । १० दी+इप्रदीपो-दीप्रदीपो-दीप्रदीपाम् । 'मा' इत्यस्य विशेषणम् अत्र 'प्रदीपो' इति ओकारान्तः शब्दः तस्य द्वितीयैकवचनम् । १२ कु + रा + अयते कुरायते ! संबोधनैकवचनम् । ]
व्याख्या-'अ' 'न्' इत्यक्षरद्वयम् असति आदत्ते क्विपि अनस् तस्य सं० । तथा अं इति यो डो ध्वनिः तेन लीयते सम्बद्धीभवतीति विपि अंडलीः, तस्य सं० एतावता 'अन' इति सिद्धम् । तथा तकारम् अतति गच्छति क्विपि तात् तस्य सं० । एतावता अनन्तः श्रीअनन्तजित् , तस्य सं० हे अनन्तः ! हे इवर्ध !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org