________________
[सिद्धये वर्धमा नः स्तात् ताम्रायन्नखमण्डली । *प्रत्यूहशलभप्लोषे दीप्रदीप कुरायते ॥२८॥
[१ सिद्धये चतुर्थ्या एकवचनम् । 'भवतु' इति क्रिया अध्याहार्या । २ व+ऋद्ध+माःवर्धमाः प्रथमैकवचनम् । अनेन 'व' शब्दः संजातः। ३ नः इति षष्ठी।४ स+ता+अत्-स्तात् प्रथमाया एकवचनम्। अनेन 'स' शब्दः । पूर्वेण 'व'शब्देन 'स'शब्दस्य संयोगे 'वस' इति श्रीवासुपूज्यजिननामसूचक 'वस' इति पदम् । ५ ताम्र+आयत्+नख+मञ्च -ताम्रायन्नखमन् । प्रथमैकवचनम् 'ड' योगे 'न्' इत्यस्य णत्वम् । ६ ड+री+डरीः प्रथमा । अत्र रस्य लध्वनौ; विसर्गस्य अगणने डली इति । ततः ताम्रायन्नखमन्+डली-ताम्रायन्नखमण्डली इति । ७ प्रति+अव-प्रत्यूः +हस+लभा (ततः बहुबीहिसमासे) प्रत्यूहसलभः । अत्र विसर्गयोः अनुच्चारणे 'स'स्य 'श'ध्वनौ प्रत्यूहशलभ इति प्रथमान्तम् । ८ प्लोषे इति सप्तम्यन्तम् । ९ दीप्रदीप्+आम्दीप्रदीपाम् षष्ठीबहुवचनम् नः इत्यस्य विशेषणम्। १० कु+र-आयति-कुरायति । तस्य षष्ठयैकवचनम् कुरायतेः । अत्र विसर्गस्य अध्वनिः ततः कुरायते ।]
व्याख्या-वकारेण ऋद्धो मा वाचको वर्धमाः नः अस्माकं सिद्धये भवतु इति क्रियाशेषः । किम्भूतो वर्धमाः ? 'स्' कारं तायते पालयतीति स्ता ईदृशः अत् अकारो यस्मिन् स स्तात् । एतावता 'वेस्' इति सिद्धम् । वसः बासुपूज्य इत्यर्थः । कथ. मित्याह-'वसुपूज्य' शब्दात् “ते लुग्वा" [३ । २। १०८] इत्युत्तरपदलोपात् वसुर्वसुपूज्यनृपस्तं स्वपितृतया आरव्यातीति णिजि 'त्रन्त्यस्वरादेः" [७ । ४ । ४३ ] लोपे, अचि वसः श्रीवासुपूज्य इत्यर्थः । अथ विशेषणयोजनम्-'वर्धमाः' किं०ताम्रायन्नखम् । रक्तवर्णत्वात् तानं धातुविशेषः तं 'यत निकार.'. [१७३८] इति चौरादिक यति'धातोनिकारार्थत्वात् , णिचोऽनित्यत्वादभावे आपत् आयतति निराकरोंति क्विपि ताम्रायतो ये नखास्तान् ‘मचुङ् धारणोच्छ्राय०' [६५६] इत्यतो मञ्चते धारयति विकपि सौ “पदस्य" [२।१ । ८९] इति 'च'लोपे ताम्रायन्नखमन् । पुनः कि० कु कुत्सितो यो “रो ध्वनौ तीक्ष्णे वैश्वानरे · कामे" [ ] इत्येकाक्षरोक्तेः रः कामस्तस्य आयतिौरवं तस्याः प्लोषे विनाशे डः शिवः तस्य री भ्रम." [ ] इत्येकाक्षरवचनात् री भ्रमस्तां ईयते गच्छति क्विपि डली: र-लयोरैक्याल्लत्वम्, कामप्रभावस्य प्लोषे शिवभ्रान्ति गच्छन्नित्यर्थः । पुनः किं.
१ 'वस' इति अदन्तम् उचितम् । २ 'ताम्रायन्नखमन्' इति शुद्धम् । ३ पुस्तिकायाम् 'ताम्रायता' इति लिखितम् परन्तु 'ताम्रायत्' शब्दस्य बहुवचनम् ताम्रायतः इत्येव समुचितम् । 'ताम्रायता' इति तु तृतीयान्तं कथं 'नखाः' इत्यस्य विशेषणम् स्यात् ? । ४ "री भ्रान्तौ"-एकाक्षर० सुधा० लो० ३८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org