________________
२८
“श+रे+यत्' एषां संयोजने 'श्रेयत्' 'इति श्रेयांसजिनसूचकं पदं जातम् । १० भ=भः प्रथमा, विसर्गस्य अगणने 'भप्लोषे' इति । ११ ‘प्लोषे’--निमित्तसप्तमी । १२ दोप्रदीपाङ्कुर ! संबोधनम् । १३. अयतेः षष्ठ्या एकवचनम् । विसर्गस्यानुच्चारणे 'दीप्रदीपाङ्कुर' पदेन 'अयतेः' संयोजने दीप्रदीपाङ्कुरायते ।]
व्याख्या—शकारम् ‘अली भूषण - प्रर्याप्त ० ' [ ९१९] इति भूषणार्थात् अले: अलति भूषति अचि शलस्तस्य सं० हे शल ! । एतावता 'शू' इति सिद्धम् । तथा एकारं 'बांक् गति' ० [ १०६ ३] इत्यतो वाति “आतो ड: ०" [५ । १ । ७६ ] इति डे एवो यो रू रकारः, तं दधातीति "क्वचित्" [५ । १ । १७१] डे एवर्धो मा वाचको यस्य स एवर्धमाः, तस्य संबो० । एतावता '' इति सिद्धम् । तथा यत् इत्यक्षरद्वयम् 'उख नख ०' [ ६४ ] इत्यतो नखति गच्छति अि यन्नवस्तस्य सं० । एतावता 'श्रेयत्' इति सिद्धम् । “श्रेयान् श्रेयांसः " [अभि० नाममा० कां ० १ श्लो० २९] इति मालावचनात् श्रेयान् श्रेयांसः । संबोधने हे श्रेयन् ! श्रेयांसजिन ! त्वं नः अस्माकम् 'यतृङ् प्रयत्ने' [ ७११] " इत्यर्थतः “ इ-कि- शितव्०" [ ५। ३ । १३८] इति 'इ' प्रत्यये यतिरुद्यमः पश्चान्नञा योगेऽयतिरनुद्यमस्तस्य लोषे निमित्तसप्तमीत्वात् प्लोषार्थं विनाशार्थः स्तात् भवेदिति सम्बन्धः । त्वं किं० तमः पापम् अज्ञानं करोतीति णिजि अन्त्यस्वरादिलोपे विचि तम् पापकर्ता मौढयकर्ता वा यो रः कामस्तनः । ' असूच् क्षेपणे' [१२२१] अस्यति क्विपि अः क्षेपकः तम्रस्यायं "तस्येदम्" [६ । ३ । १६०] अणि ताम्राः स चासौ अश्च ताम्राः कामध्वंसीत्यर्थः । पुनः किं० सिद्धः प्रसिद्धः । पुनः किम्भू० “ते लुग् वा" [३ । २ । १०८] इति पूर्वपदलोपात् मण्डलं भामण्डलं विद्यते यस्य स मण्डली "अतोऽनेकस्वरात्" [७ । २ । ६ ] इति इन् । पुनः किं० प्रति प्रतिकूलो यः कामस्तस्य ऊहनं तस्मिन्"हो हस्ते दारुणि शूलिनि” [ ] इत्येकाक्षरवचनात् - हः शिवः स इव प्रत्यूहस्तस्य सं० । पुनः किं० 'भैंस भर्त्सन - दीप्त्योः' इत्यतः बभस्तीति क्विपि भः दीप्यमानः इत्यर्थः । हे दीप्रदीपाङ्कुर ! दीप्यमानप्रदीप ! त्रिभुवनभवनाऽऽन्तरतमःक्षयकारित्वात् ||२७||
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोपे दीमदीपाङ्कुरायते ॥ २८ ॥
१ 'ताम्रः' इति एकवचनं समुचितम् । २ 'भस्' धातुः णाधवीयधातुवृर्ती तृतीयगणे अष्टादशतमो धातुर्विद्यते -"भस
पृ० २७५ ।
Jain Education International
For Private & Personal Use Only
हैमे धातुपाठे न विद्यते किन्तु भर्त्सन - दीप्त्योः ”. माध० धातु०
www.jainelibrary.org