________________
२७
तात् । पुनः किं०? म्लायन्ती मुक्त्यनाप्त्या खिद्यमाना “नखः करज-षण्ढयोः" [हैम० अनेकार्थ. द्विस्वर० श्लो० ३८] इति अनेकार्थवचनात् नखानां तृतीयप्रकृतीनां मण्डली श्रेणिर्यस्याः सा म्लायन्नखमण्डली समासान्तविधेरनित्यत्वात् कजभावः ईदृशी ईः शासनरूपा लक्ष्मीर्यस्य स म्लायन्नखमण्डलीः । नपुंसकानां हि जिनमते मुक्ति!क्ता । त्वं किं. भा भ्रमरास्तद्वद् भान्ति 'गौचर्यामिति "क्वचित्" [५ । १। १७१] डे भभाः यतिनस्तानाख्यातीति णिजि क्विपि सौ “धुटस्तृतीयः” [ २ । १ । ७६ ] इति विरामविवक्षितत्वात् पत्वे भप् तत्त्वातत्त्वकथनाय साधूनाम् आख्याता । अथवा भः शुक्रः कौशलेन तद्वद् भान्ति डे भभा विद्वांस : तानात्यान्तीति पूर्ववदेव । पुनः किं. ल इव इन्द्र इव लः । पुनः किं० ईम् लक्ष्मी प्रददाति क्विपि “र्व्यञ्जने०" [४ । ३ । ९७ ] इति परमते ईकारे ईप्रदीः । तथा इम् कामं 'पै शोषणे' (४७) इति पायति शोषयति डे इपः । तथा न कुत्सितं रासते शब्दायते क्विपि अकुराः पश्चाद् विशेषणसमासे ईप्रदीपाकुराः । यते किं० सिद्धा सम्पन्ना या लक्ष्मीर्यस्मात् तत् सिद्धयं तस्मिन् सिद्धये ॥२६॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्युहशलभप्लोषे दीप्रदीपाङ्करायते ॥२७॥ [सिद्धयेवर्धमा नः स्तात् ताम्रा यन्नख ! मण्डली।
'प्रत्यूह ! शेल ! मैंः "प्लोषे दीप्रदीपाङ्कुरायते॥२७॥] - [१ सिद्धः प्रसिद्धः प्रथमैकवचनम् । २ एवर्धमाः ! संबोधनैकवचनम् । अनेन पदेन 'रे' इति निष्पन्नम् । सिद्धः+एवर्धमाः सिद्धयेवर्धमाः। अत्र “रोर्यः" [१।३।२६] इति सूत्रेण यत्वे कृते सिद्धयेवर्धमाः इति जायते । ग्रन्थकारेण तु नैषा प्रक्रिया प्रदर्शिता । ३ नः षष्ठी । ४ स्तात् क्रियापदम् । ५ तम्+र्-तम्र-ताम्र+अस्-ताम्राः प्रथमैकवचनम् । ६ यन्नख । यत्। नख-यन्नख संबोधनैकवचनम् । अनेन पदेन 'यत्' इति निष्पद्यते । ७ मण्डली-भामण्डलवान् प्रथमा । ८ प्रति+3+ह-प्रत्यूह ! संबोधनैकवचनम् । ग्रन्थकारेण 'प्रत्यूह'पदसाधनाय 'प्रति+ऊहन+ह' इति प्रक्रिया प्रदर्शिता परन्तु तया तु 'प्रत्यूहनह' इति सेत्स्यति, 'प्रत्यूह'
ति अतः 'प्रत्यूह'पदसाधनाय इयम् अन्या प्रक्रिया समुचिता-प्रति+ऊं+ह-प्रत्यूह, अत्र 'पदं रोषवाचकम ततः शिववत् कामं प्रति रोषकारी एवम् अर्थसौकर्यमपि भवति । "ऊं प्रश्ने रोषवाचि च" [हैम० अने. अव्यय० श्लो. १७७३] चित्रकाव्ये 'ॐ' इत्यस्य 'ऊ' उच्चारणम् । ९ शू+अल+अ=शल ! संबोधनैकवचनम् अनेन पदेन 'शू' इति उपपन्नम् । एवम्
१ अत्र 'गोचर्याम्' इति उचितम् । २ अत्र 'आख्याति' इति उचितम् । ३ "संस्था' शब्दात् अन्यत्र लुप्तव्यञ्जनेऽपि इच्छन्ति एके । तथा च जयकुमारः 'पां पाने' इत्यस्य क्विपि पीः इत्याह"-अस्य सूत्रस्य सिद्धहेमलघुन्यासे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org