________________
[४ । ३ । ८२] इत्यल्लोपे, गत्यर्थानां ज्ञानार्थत्वेन प्रेत्तिः प्रतिपत्तिर्ज्ञानं तत्त्वातत्त्वविचारस्ताम् । 'अव रक्षण०' [४८९] इति हिंसाऽर्थादवतेः अवति हिनस्ति कर्तरि विपि "मव्यवि०" [४ । १ । १०९] इत्युपान्त्येनोटि ऊहिंसको यः-"हो हस्ते दारुणि शूलिनि" [ ] इति एकाक्षरवचनात्-हः शिवः तस्य शासनमपि उपचारात् हः स एव शलभः पतङ्गस्तस्य प्लोषे विनाशे दीपो दीपाङ्करः प्रदीपः तद्वदाचर क्विपि हौ दीप्रदीपाङ्कुर । त्वं किं० मण्डलं बिम्बं विद्यते यस्य स "अतोऽनेकस्वरात् " [७ । २ । ६ ] इनि मण्डली सूर्यः मण्डलीव मण्डली जगत्प्रकाशकत्वात् ॥२५॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥२६॥ ['सिद्धयेऽवर्धमानस्तात्ता 'म्रायन्नखमण्डलीः।
'प्रत्गृहशल !"भप्लोऽषेदीप्रदीपांकुरा यते ॥२६॥] [१ सिद्ध+या सिद्धय, ततः सप्तम्या एकवचने सिद्धये । २ अ+वर्धमानः अवर्धमानः। ३ 'त' शब्दस्य पञ्चम्या एकवचनम्। ४ 'ताय' धातोः--क्विबन्तं कृदन्तं नाम--ता प्रथमैकवचनम् । ५ म्लायत्+नखमण्डली+ई:--म्लायन्नखमण्डलीः । लस्य 'र' ध्वनौ विसर्गस्यागणने च म्रायन्नखमण्डली ता+म्रायन्न ताम्रायन्न । 'ता' इति भिन्नं पदम् । ६ प्रत्-ई+ऊह+श-प्रत्यूहश, अनेन शीतल
म् 'शीत्' इति पदं निष्पन्नम् । प्रत्यह+अल-प्रत्यूहशल, अनेन संपूर्ण 'शीतल इति नाम संजातम् । प्रत्यूहशल ! संबोधनैकवचनम् । ७ भ+भाभप्-प्रथमैकवचनम् । ८ लः प्रथमैकवचनम् । ९ 'अषेत्' इति क्रियापदम् । १० ई+प्र+दी+इ+4+अ+कु+रास-ईप्रदीपाकुराः प्रथमैकवचनम् । सानुस्वारस्य उच्चारणे प्रदीपांकुराः प्रत्यूहशल+भप+लप्रत्यूहशलभल इति अत्र त्रीणि पदानि, तत्र उपान्त्यम् अन्त्यं च 'भप्' इति 'ल' इति च प्रथमान्तम् । प्रत्यूहशल+भप+ ल:+अषेत् एतेषां संयोगे प्रत्यूहशलभप्लोषे इति ज्ञेयम् । ततः 'अषेत्' इत्यस्य अन्त्य 'त्' इत्यस्य 'ईप्रदीप०' इति पदेन संयुक्तीकरणे प्रत्यूहशलभप्लः+अषेत्+ईप्रदीप-प्रत्यूहशलभप्लोषेदीप्रदीप० ततः 'अकुराः' इत्यनेन संयोगे समग्रं जायते। ११ यते व्रते ]
व्याख्या-प्रगतः तु तकारोऽग्रे यस्य स प्रत् ईदृशश्चासौ ईकारश्च प्रतीः संज्ञाशब्दत्वात् तृतीयो (दकारः) न भवति । एवं सर्वत्र । तस्य ऊहो स्थापनविचारोडग्रे यस्य स प्रत्यूहः स चासौ श् च प्रत्यूहर-एतावता 'शीत्' इति सिद्धम् । ईदृशं 'अल' इत्यक्षरद्वयं यस्य स प्रत्यूहशलः-एतावता'शीतलः' इति सिद्धम् तस्य सं० हे प्रत्यूहशल ! शीतल ! भवान् यते व्रते अषेद् गच्छति व्रतमङ्गीकरोतीत्यर्थः । त्वं पुनः किं० अवर्धः अवर्धिष्णुः मानः अहङ्कारो यस्मात् स अवर्धमानः । पुनः किं० 'तायुङ् सन्तान-पालनयोः' [८०६] इति, अतः क्विपि “य्वोः प्वय्०” [४ । ४ । १२१] इति 'य'लोपे ता रक्षकः कस्मात् “तः तस्करे क्रोडे' [ ]इति तः तस्करः तस्मात्
१ ग्रन्थकारेण अयं शब्दो न दर्शितः । २ "हः शूलिनि करे वीरे” इत्यादि-एकाक्षर सुधा. लो० ४५ । ३ क्रियापदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org