________________
सित् ज्ञाता । न स्तात् ? अपि तु स्तादेव । अयमर्थः तवोपदेशादिना मुक्तमांसादिभक्षणो व्याधोऽपि तत्त्वज्ञाता स्तादेव ॥२४॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥२५॥ ['सिद्धयेधमाऽनस्तात् ! ताम्रायन्नख ! मण्डली।
'प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुराऽऽयते ॥२५॥] [१ हे सिद्धय ! सिद्ध+या बहुवीहिसमासे सिद्धय ! संबोधनैकवचनम् । २ इवर्धम ! सिद्धय+ इवर्धम सिद्धयेवर्धम ! संबोधनैकवचनम् । इ+व्+अर्+ध्+अम=इवर्धम ! अनेन पदेन विधि' शब्दः निष्पन्न: सुविधिजिननामद्योतकः । ३ अनस्तात् संबोधनेकवचनम् । अ+नस+ता+अत्-अनस्तात अनस्ता अकौटिल्यम्-ऋजुता-अकपटभावः-सरलता इति यावत् । ४ ताम्+र+शतृ ताम्रायत् +नख ताम्रायन्नख । ५ मण्डली प्रथमैकवचनम्। ६ प्र+तय्+ति-प्रत्ति+अव्-ऊ-प्रत्त्यू+ह-प्रत्त्यूहशलभप्लोषे सप्तम्या एकवचनम् । ७ दीप्रदीपाकुर इति क्रियापदम् द्वितीयपुरषैकवचनम् पञ्चम्या 'हि'प्रत्यये । एतत् क्रियापदम् हैम० ३।४।२५। इति सूत्रतः आचारार्थद्योतक क्विप'प्रत्ययान्तम् । ८ 'इ'शब्देन 'कामदेव'वाचकेन इदमर्थद्योतकतद्धितप्रत्यये आय+ति आयति-संबोधनैकवचने आयते ! ]
व्याख्या-न विद्यते र यस्मिन् स अर् , स चासौ ध् च अर्-ध् । व् च अर्-ध् च वक़, इकारेण युक्तौ च तौ वर्धा च इवौं । 'अम् शब्द-भक्त्योः ' [३९१] इति अमति वक्ति अचि अमो वाचकः, इवौं अमो वाचको यस्य स इवधम एतावता 'विधि' इति सिद्धम् । "ते लुग् वा” [३ । २ । १०८] इति पूर्वपदलोपाद् उपसर्गस्याऽतन्त्रत्वाद् वा तस्य सम्बो० इवर्धम ! हे सुविधे ! हे सिद्धय ! 'सि० शाश्वती मुक्तिरूपा या लक्ष्मीर्यस्य तस्य सम्बो० । तथा हे अनस्तात् ! 'णसि कौटिल्ये' [८५१] क्विपि नस्, भावे तलि नस्ता कौटिल्यं नञ्योगे अनस्ता अकौटिल्यं तेन 'अत् सातत्यगमने' [२७९] अतति विहरति जगति क्विपि अनस्तात् तस्य संबो० । हे ताम्रायन्नख ! तानं रक्तं करोति णिजि क्विपि “पदस्य" [२ । १ । ८९] इति 'र'लोपे ताम् अत एव रैः सुवर्णं तद्वदाचरतीति क्विपि शतरि रायन् नखो यस्य स ताम्रायन्नखस्तस्य संबो० । हे आयते ! इ: कामस्तस्येयं “तस्येदम्" [६ । ३ । १६०] अणि आयी तिर्गमनं यस्मात् स आयतिस्तस्य संबो० । त्वं प्रपूर्वात् 'तयि णयि रक्षणे च' [७९७] इति चकाराकृष्टगत्यर्थात् तयतेः क्तौ “य्वोः प्वय०" [४ । ४ । १२१] इति यलोपे “अतः"
१- 'सिद्धा' इत्यस्य 'सि.' इति संक्षिप्तम् तेन 'सि सिद्धा शाश्वती' इत्यादि योज्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org