________________
[१ सित् ज्ञाता-प्रथमैकवचनम् । २ हयेब् ! संबोधनैकवचनम् । ह+अय+ईप्=हयेब् अनेन प्रकारेण 'हि'शब्दो निष्पन्नः । ३ अर्धमाः । अर्ध+माः अर्धमाः । अनेन प्रकारेण 'मा' शब्दः साधितः । मा+हि- 'माहि' इति जातम् । महस्य अपत्यं माहिः । हये+अर्धमाः हयेबर्धमाः । सित+हयेबर्धमाः सिद्धयेवर्धमाः+नः सिद्धयेबर्धमानः । 'ब'कारस्य 'व'ध्वनौ सिद्धयेवधमानः । ४ अत्र 'नः' इत्यस्य विसर्गों न उच्चारणीयः ततः 'न' इति निषेधवाचकम् बोध्यम् । तस्य 'स्तात्' क्रियया संबन्धे काक्वा प्रश्नविवक्षायाम् न स्तात् अपि तु 'स्तात् एव' इति अर्थसंगतिः । ५ ताम्रायते इति ताम्राः । ६ अन्नख-अन्न+खाद्-अन्नख+मण्डली-अन्नखमण्डली । ताम्रास्+अन्नख० अत्र सः रुत्वे तस्य च पूर्वोक्तप्रकारेण 'य'त्वे ताम्रा यन्नख० । ७ प्रत्यूह-शर ! रस्य लध्वनी प्रत्यूहशल । ८ भप्लोषे--भ+प्र+उ-भप्रो । 'र'स्य लध्वनौ भप्लो इति ओकारान्तम् । अषे न षः अषः तस्मिन् अषे सप्तम्यन्तम् भप्लो+अषे-भप्लोऽषेभप्लोषे इति, अत्र 'भप्लो' इति 'अषे' इत्यस्य विशेषणम् । ९ भप्लोषे दीप्रदीपाङ्कुराय ! । १० तव ।]
व्याख्या-अर्धं मा इति माकारो यस्य स अर्धमाः । एतावता मा इति सिद्धम् । तथा हकारम् अयते अचि हयो य इः इकारस्तं ईप्सतीति क्विपि सौ “पदस्य" [२।१। ८९] इति 'स'लोपे “धुटस्तृतीयः" [२ । १ । ७६] इति बत्वे बवयोरैक्यात् क्त्वे हे हयेव् !। एतावता 'माहि' इति सिद्धम् । “ते लुग् वा" [३ । २ । १०८] इत्युत्तरपदलोपात् महो महसेनभूपः तस्यापत्यं “अत इञ्" [६ । १। ३१] इति इञि वृद्धौ माहिस्तस्य सम्बो० हे माहे ! चन्द्रप्रभ ! । हे प्रत्यूहशर ! प्रत्यूहा विघ्नाः तेषां विषये शर इव बाण इव प्रत्यूहशरस्तस्य सम्बो० । तथा हे भप्लोषे दीप्रदीपाङ्कुराय ! 'भस् भर्त्सन-दीप्त्योः ' माधवीयधातु० तृतीयगण धा०१८]इति परपठितधातोः क्विपि भः सन्तापकः प्रकृष्ट उः शिवो यस्य स भप्लोः श्लेषाद् विसर्गलोपः रलोरक्याल्लत्वम् । ईदृशः "षः श्रेष्ठे" [ ] इति एकाक्षरवचनात् अषोऽश्रेष्ठो यः कामः स एव 'अग्नौ वमिर्दीप्रः" हैमशेषनाममालालो०१७११]इति शेषवचनाद् दीप्रोऽग्निः तस्य दीपनं घञि दीपः कान्तिस्तस्मिन् । “अङ्कुरं सलिले” [ ] इत्यनेकार्थवचनाद् अङ्कुरं जलं तद्वदाचरतीति क्यङि अचि भप्लोषेदीप्रदीपाङ्कुरायस्तस्य सम्बो० । हे ताम्रा ! ताम्रः धातुविशेषस्तद्वदाचरतीति क्यङि क्विपि “य्वोः प्वय्०" [४ । ४ । १२१] इति यस्य लोपे ताम्राः पीत-रक्तयोरैक्यात् सुवर्णवर्ण इत्यर्थः । अन्नं धान्यं तदेव खादति भक्षयति "कचित्" [५ । १ । १७१] डे अन्नखो धान्यभोक्ता न तु मांसादिभोक्ता यः । “समूहे कुष्ठभेदे हि शुनि मण्डले [ ] इत्यनेकार्थवचनात् मण्डलाः श्वानो विद्यन्ते यस्य स मण्डली व्याधः “अतोऽनेकस्वराद्" [७ । २ । ६] इति इन , अन्नखश्चासौ मण्डली च अन्नखमण्डली ते तव 'षिधू गत्याम्' [३२०] सेधति इति किपि
१--"षः कीर्तितो बुधैः श्रेष्ठे"--एकाक्षरकोषे श्लो० ३४२ मण्डलो बिम्ब-देशयोः ॥१२७४॥ भुजङ्गभेदे परिधी शुनि द्वादशराजके । संघाते कुष्ठभेदे च ॥१२७५॥ हैम-अनेकार्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org