________________
२३
'क'वर्णयुक्त! । पूर्वेण 'स्वस्ति'पदेन 'क'स्य संयोगे 'स्वस्तिक' इति निष्पन्नम् । ९ आ+ यत= आयत-द्वितीयपुरुषैकवचनम् पञ्चम्याम् क्रियापदम् । १० °त +इम् तेम् । 'म्' कारस्य अनुच्चारणे 'ते' इति । ]
व्याख्या-स् इद्धां दीप्तां यां लक्ष्मीम् ईयते गच्छति क्विपि सिद्धयेः यो वकारस्तेन ऋद्धो मा वाचको यस्य स सिद्धयेवर्धमाः तस्य सम्बो० हे सिद्धयेवर्धमाः ! एतावता 'स्व' इति सिद्धम् । तथा स्त इति वर्णद्वयेनात्तो गृहीत. सन् न म्लायति क्विपि स्तात्ताम्ला य इकारस्तम् अङ्गति गच्छति किपि सौ "पदस्य" [२ । १ ८९] इति गलोपे हे स्तात्ताम्लायन् ! । अधुना 'स्वस्ति' इति सिद्धम् । तथा अकारेण युक्तं ककारं उरो मुख्यं करोति णिजि ">यन्त्यस्वर." [७। ४ । ४३] इति 'अस्'लोपे उरयतीति अचि अकुरस्तस्य सम्बो० हे अकुर ! । एतावता स्वस्तिक इति सिद्धम् । अथ स्वस्तिकवन्मङ्गलहेतुत्वाद् रक्तवर्णत्वाच्च श्रीसुपाश्वजिनोऽपि स्वस्तिकः । अथवा स्वस्तिकलाञ्छनाद् धार्य धारकयोरभेदोपचारात् अथवा स्वस्तिको विद्यते यस्य लाञ्छने इति “अभ्रादिभ्यः" [७ । २ । ४६] इति 'अ'प्रत्यये स्वस्तिकस्तस्य सम्बो० हे सुपार्श्व ! त्वं नः अस्माकं इं कामं आयत निराकुर्याः । 'आयत' इति आपूर्वात् 'यतण निकारोपस्कारयोः [१७३८] इति धातोर्णिचोऽनित्यत्वात् णिचोऽभावे पञ्चम्या हौ रूपसिद्धिः । उषां बाणपुत्रौं स्वकलत्रं 'ईच् गतौ [१२५२] ईयते कामार्थं गच्छति क्विपि उषेः अनिरुद्धः बल-रूपादिना प्रकृष्टः उषेः प्लोषेः तद्वद् दीयो दीपनं दीपः कान्तिर्यस्य तस्य सम्बो० प्रोषेदीप्रदीप ! । हे प्रत्यूहशलभ ! प्रपूर्वाद् हिंसाऽर्थाद् दयतेः क्तौ “य्वौः प्वय०" [४ । ४ । १२१] इति यस्य लोपे परमते “अतः” [४ । ३ । ८२] इति अल्लोपे “अघोषे प्रथमोऽशिटः" [१ । ३ । ५०] इति तत्त्वे प्रत्तिर्हिसा तस्या ऊहं' विचारं 'शृश् हिंसायाम्' [१५३१] शणाति अचि प्रत्यूहशरा-र-लयोरैक्यात्- प्रत्यूहशला भा कान्तिर्यस्य स तस्य सम्बो० । तथा हे अखमण्डली ! खानि इन्द्रियाणि चक्षुरादीनि तेषां मण्डनं मण्डो अञ्जनादिना आभरणादिना च अलङ्करणं तं लीयसे श्लिष्यसि विपि खमण्डली: पश्चात् नञ्योगे अखमण्डली ॥२३॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥२४॥ ['सिद्धयेवैर्धमा ! ने स्तात् ? ताम्रा ! यन्नख-मण्डली। प्रत्यूहँशल ! भप्लोऽषेदीप्रदीपाङराय ! ते" ॥२४॥]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org