________________
२२
इवर्धः । पश्चाद् विशेषणसमासे धयेवों मा वाचको यस्य स धयेवर्धमाः । एतावता धारिः-धरस्य राज्ञोऽपत्यं पद्मप्रभजिनः । 'षिधू गत्याम्' [३२०] सेधति जानाति तत्त्वं क्विपि सित् त्रिजगत्ज्ञाता तत्त्वातत्त्वविद् अस्तीति क्रियाविशेषः । किं० 'णसि कौटिल्ये [८५१] नसते क्विपि नः तस्य भावे तलि नस्ता कौटिल्यं माया इति यावत् , तां अत्ति विनाशयति क्विपि नस्तात् कौटिल्यमुक्त इत्यर्थः । पुनः किं० ? ता चतुस्त्रिशदतिशयलक्ष्मीः तया आम्लानं "उपसर्गादातः" [५ । ३ ।११०] इति अप्रत्यये आम्लां म्लानिम् अस्यति क्विपि ताम्लाः । उत्तरार्धे यच्छब्दः पूर्वार्धे तच्छशब्दं द्योतयति । स कः ? इत्याह-यन्नखमण्डली यस्य नखश्रेणी प्रपूर्वात् 'दयि दान-गति-हिंसा०' [७९९] इति रक्षणार्थाद् दयतेः क्तौ “य्वोः प्वय ०"[४ । ४ । १२१] इति यलोपे परमते "अतः" [४ । ३ । ८२] इति अलोपे “अघोषे प्रथमः ०" [१ । ३। ५०] इति तत्त्वे प्रत्तिर्दया तस्याः करोत्यर्थाद् अवेः क्विपि ऊटि ऊः करणं ताम् । 'ओहांक त्यागे' [११३१] इति जहाति "आतो डः." [५ । १ । ७६] इति डे प्रत्यूहो निर्दयः स एव शलभः तस्य प्रकर्षेण 'उष रुजायाम्' [५०४] इति उषणं घञि प्रोषः पीडा दहनमित्यर्थः तस्मिन् दीप्रा दीप्यमाना या दीपनं घञि दीपाः कान्तिचाकचक्यानि तैः अकुः अकुत्सितो यः "रैस्तीक्ष्णे वैश्वानरे कामे" | ] इत्येकाक्षरवचनात् रः अग्निस्तद्वदाचरति "क्य" [३ । ४ । २६] इति क्यङि दीर्घश्चेति दीप्रदीपाकुरायते श्लेषादनुस्वारलोपः ॥२२॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङरायते ॥२३॥ [सिद्धयेवर्धमा! नः स्तात्ताम्रायन् ! नखमण्डली!।
प्रत्यूहशलभ ! प्लोषेदीप्रदीपाऽकुरा यते" ॥२३॥] [१ स्+इद्ध+या +इ=सिद्धये इति एकारान्तं पदम् अर्थात् 'स'युक्तः । २ व++ऋद्ध+मा-वर्धमाः इति आकारान्तं पदम् अर्थात् 'व'युक्तः । आभ्यां पदाभ्याम् 'स्व' इति जातम् । सिद्धयेवर्धमाः! इति संबोधनैकवचनम् । ३ नः षष्ठी । ४ स्त+आत्त+अ+म्ला+इ+अङग-स्तात्ताऽम्लायन् ! संबोधनैकवचनम्। 'इ+अङग्' इत्यस्य संधौ ‘यङग्' ततः यन् । 'म्ला' इत्यस्य 'म्रा' उन अनेन पदेन 'स्ति' इति जातम् ततः पूर्वेण 'स्व'पदेन 'स्ति'पदस्य संयोजने 'स्वस्ति' इति जातम्। ५ अ+ख+मण्ड+ली-अखमण्डलीः ! संबोधनैकवचनम् । काव्ये विसर्गविहीनम् उच्चारणम् । ० यन्+अख०' इत्यस्य संधौ ‘यन्नख' इति। ६ प्र+त्ति-प्रत्ति+ऊह+शर+भा+प्रत्त्यूहशरभ ! संबोधनैकवचनम् । 'र'स्य 'ल'उच्चारणे ० शलभ इति । ७ प्र+उषा+इ=प्रोषे इति 'कामदेव' सूचकम् एकारान्तं पदम् । प्रोषेदीप्रदीप ! इति संबोधनैकवचनम् । ८ अ+। उर ! =अकुर ! अर्थात्
१ दकारस्य तकारे जाते । २ "र: कामे तीक्ष्णे वैश्वानरे"-एकाक्षर० सुधा०लो०३६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org