________________
'सुमत्' इति सिद्धम् । तथा ई इकारं गच्छति इङ्गति क्विपि यन् तस्य सम्बो० हे यन् ! एतावता सुमतिः इति सिद्धम्, सम्बोधने हे सुमते ! अहं ते तुभ्यम् अषे आश्रये इत्यर्थः । कस्यै ? सिद्धये मुक्तये । केषाम् ? नः अस्माकमेव । 'अषी असी गत्यादानयोश्च' [९३१] इति अषेर्धातोर्वर्तमानात्मनेपदीयास्मदर्थे कवचने रूपसिद्धिः । अहं किं० ? म्लायामि क्विपि म्लाः कर्मादितत्वात् म्लानीभवन्नित्यर्थः । अत एव अखानि दुःखानि तान्येव मण्डो भक्तादिरसाग्रयम् तद् 'लीग् द्रवीकरणे' [१९४२] युजादिविकल्पितणिच्त्वात् णिचोऽभावे लयति द्रवीकरोति व्यपनयति क्विपि अखमण्डलीः । पुनः किं० प्रत्यूहानां विघ्नानां शयः स्वापो लक्षणया विनाशः तं करोति णिजि क्विपि सौ “य्वोः०" [४ । ४ । १२१] इति यलोपे प्रत्यूहशय् । पुनः किं० 'ल इन्द्रे चलनेऽपि च" [ ] इत्येकाक्षरोक्तेः लेन इन्द्रेण भाति "क्वचित्" ५। १ । १७१] डे लभः स्वर्गस्तं प्लवते गच्छति "क्वचित्" [५ । १ । १७१] डे लभप्लः । ते किं० र-लयोरैक्यात् कुलाय गृहाय । कासाम् ? दीप्रदीपां दीप्रकान्तीनाम् ॥२१॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥२२॥ ['सिद्धयेवर्धमा नस्तात् ताऽम्ला यन्नखमण्डली।
प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥२२॥] [१. 'सित्' प्रथमैकवचनम् । २ धया+इव++ध+माः धयेवर्धमाः अर्थात् अनेन स्वरव्यजनसंयोजनप्रकारेण 'धारिः' इति जातम्-धरस्य नृपस्य अपत्यम् पद्मप्रभजिनः इत्यर्थः । ३ नस+ता+अत्-नस्तात् प्रथमैकवचनम् । ४ ताम्लिा +अस् ताम्लाः अत्र 'अस्' धातुः दिवादिगणस्थः । नस्+तात्+ताम्ला:-नस्तात्ताम्राः इति। ४ प्र+दय+ति-प्रत्ति+ऊ+ह-प्रत्त्यूहः । ५ प्र+ उष% प्रोषः अत्र'उष् रुजायाम्' धातुः । प्रोषे प्लोषे सप्तमी। ६ 'दीप्रदीप अकु+र' तस्मात् क्यडि दीप्रदीपाकुरायते । चित्रकाव्यत्वेन अनुस्वारवृद्धौ दीप्रदीपाङ्कुरायते ।]
व्याख्या-धकारं याति "आतो डः०' [५।११७६] इति हे धयः आकारो यस्मिन् स धयाः । तथा इकारं 'वन षन भक्तो' [३२९] वनति सेवते इति विचि तल्लोपे इवा ईदृशं र इति रकारं धत्ते 'आतो डः०" [५ । १ । ७६ ] इति डे
१ अत्र ‘यन्' इति पदसाधनाय ग्रन्थकारेण 'इ'पदेन सह 'इङ्ग'धातोः क्विबन्तम् ‘इन्' इति रपं योजितम् परंतु अनया प्रक्रियया 'ईन्' इति सेत्स्यति न 'यन्' इति, अतः अत्र 'यन्' पदसाधनाय एषा प्रक्रिया नोचिता । या उचिता सा इयम्-'अग्' धातोः क्विपि 'अन्' इति पदं जायते अस्य 'अन्' इति पदस्य '३' पदेन संधौ यन्' इति पदं साधयितुं सुकरम् अतः अत्र पावे 'इङ्गति' स्थाने 'अङ्गति' इति समुचितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org