________________
२०
शेषः । सामान्याभिधाने अभिधानादिविशेषमाह-त्वं किं० स् सकारस्य ता लक्ष्मीः स्ता तया आत्तं अङ्गीकृतम् । आम् इति वर्णद्वयं 'रांकु दाने' [१०६९] राति लाति क्विपि स्तात्ताम्राः एतावता साम् इति सिद्धम् । पुनः किं. 'वर' इति वर्णद्वयं दधाति "तो डः०" [५ । १ । ७६] इति डे व? मा वाचको यस्य स वर्धमाः, एतावता सांवर इति सिद्धम् । पुनः किं० इकारं 'अगु रगु गतौ' [८३] इति धातोः अङ्गतीति वाक्ये क्विपि सौ “पदस्य" [२ । १ । ८९] इति गलोपे यन्-एतावता सांवरिः संवरस्य राज्ञोऽपत्यं अभिनन्दन इत्यर्थः । पुनः किं० प्रत्यूहा विघ्नाः 'शश् हिंसायाम्' [१५३१] “युवर्ण-वृ-ह-वश०" [५। ३ । २८] इति अलि र-लयोरैक्यात् शलो हिंसा ताम् 'भस् भर्सन-दीप्त्योः' [५३१] इति लक्षणबृहद्वृत्तौ "उणादयः" [५ । २ । ९३] इति सूत्रदर्शितात् परैर्जुहोत्यादिपठिताद् 'बभस्ति' इति वाक्ये प्रत्यूहशलभः, श्लेषाद् विसर्गलोपः । यस्य ते तव नखमण्डली इं कामं प्लोषेत् दहेत् इमिति मण्डलीत्यत्र इकारप्रश्लेषात् 'नानुस्वार-विसर्गौ च' इति अनुस्वारलोपः ॥२०॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीपदी पाङ्कुरायते ॥२१॥ [सिद्धये वर्धमाः ! नः स्तोऽत्ता! म्ला यन्' नखैमण्डलीः ।
प्रत्यूहर्शलभप्लोऽ*षे दीपदीपां कुलीय ते" ॥२१॥] [१ उ+अर्थ+म्+आ+अस्-वर्धमाः! संबोधनैकवचनम् । अनया स्वरव्यजनसंयोजनयुक्त्या 'सुम्' इति जातम् । २ षष्ठीबहुवचनम् । ३ स्त+अत्तास्तात्ता! इति संबोधनम् । अनेन पूर्वेण 'सुम्' पदेन 'अत्' इति वर्णद्वयस्य संयोजने 'सुमत्' इति । ४ यन् ! संबोधनम् अर्थात् 'इ'कारयुक्तः अतः 'सुमत्' पदेन सह अन्ते 'इ'संयोजने 'सुमति' इति जातम् । अतः हे सुमते! इति भावः । ५ अखमण्डली:-'यन्+अख०' इति स्थितौ 'न्'व्यञ्जनस्य द्वित्वे 'यन्नख' इति । अख+मण्ड+ली:-अखमण्डलीः । ६ प्रत्यूह+शय लभप्लः । अत्र चित्रकाव्यत्वेन 'यू' न गण्यते अतः प्रत्यूहशलभप्लः प्रथमैकवचनम् । ७ 'अषे' इति 'अष्' धातोः अहंकर्तृकम् क्रियापदम् । ८ षष्ठीबहुवचनम् ‘दीप्रदीप्'शब्दस्य। ९ कुलाय चतुर्थीविभक्तिः । १० ते 'तव' इत्यर्थः ।].
व्याख्या-स्कारं 'तयि णयि' [७९७]इति गत्यर्थात् तयेः तयते इति विचि “य्वोः प्वय" [४ । ४ । १२१] इति यलोपे हे स्त ! तथा उ अर्धे अंशे यस्य स वर्धः ईदृशो यो म् मकारस्तेन आ समन्ताद् असति शोभते क्विपि वर्धमाः तस्य सम्बो. हे वर्धमाः! एतावता 'सुम्' इति सिद्धम् । तथा अत् इति वर्णद्वयं 'ताङ् सन्तान-पालनयोः [८०६] तायते पालयति क्विपि अत्ता, तस्य सम्बो. हे अत्ता !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org