________________
किं. वकारेण ऋद्धो 'माङ्क मान-शब्दयोः' [११३७ मिमीते मा वाचको यस्य स वर्धमाः । पुनः किं ० 'उख नख०' [६४] इति नखधातोः अचि नखो गच्छन् म् मकारो यस्य स नखम् एतावता शम्भवः शम्भवाभिध इत्यर्थः । तथा 'अगु गतौ' [८३] 'गत्यर्थाः ज्ञानार्थाः' इति अङ्गति जानाति सवै क्विपि अन् अग्रे डकारे सति "तवर्गस्य श्चवर्ग." [१ । ३ । ६०] इति सूत्रेण णत्वम् । तथा पीत-रक्तयोरैक्यात् कान्त्या तानं धातुविशेषस्तद्वद् आचरति "क्य" [३ । ४ । २६] इति क्यङि क्विपि यो लोपे ताम्राः । पुनः किं० "डः शिवे ध्वनौ" [ ] इत्येकाक्षरवचनान् डं देशनाध्वनिस्तं लीयते क्विपि डलीः । यं त्वां प्रति प्रदीपां कान्तीनां कुः शिवश्रीः आयते आगच्छति, अत्र आपर्वः 'अयि गतौ' [७९०] इति धातुः । किम्भूता ? प्रकर्षण ऊषति रुजति जगत् "नाम्युपान्त्य." [५। १ । ५४] इति के प्लोषो यः इः कामः तं दीयते क्षयं नयति प्लोषेदी: चित्रकाव्यत्वाद् विसर्गभावाभावो न दोषपोषाय । यमित्यस्य पूर्वार्धस्थितस्यापि उत्तरार्धे ग्रहणं श्लेषसंश्लेषतो न दोषाय जायते ॥१९॥
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोषे दीप्रदीपाङ्करायते ॥२०॥ [सिद्धये वर्धमा नः स्ताऽऽत्ताऽऽम्राः येन् न खमण्डली।
मँत्यूह-शलभ प्लो षेदीपदीपाङ्करांय ! ते ॥२०॥] [१ अत्र 'स्तात्' इति क्रिया अध्याहार्या अर्थात् सिद्धये स्तात् भवतु इति । २ व+ध +मा-वर्धमाः अर्थात् 'वर' इति वर्णद्वयधारकः । ३नः अस्माकम् । ४ स्ता+आत्त+आम्+रा-स्तात्ताम्राः अर्थात् 'साम्' इति पदधारकः । ५ यन् इ+अन् यन्-इवर्णधारकः 'यन्' इति प्रथमैकवचनम् । चतुर्थ-द्वितीय-पञ्चमटिप्पणोक्तप्रकारेण 'सांवरिः' इति पदं निष्पद्यते-संवरस्य अपत्यम् सांवरिः अभिनन्दनः इति। ६ नखमण्डली+इम्-नखमण्डलीम् ततः चित्रकाव्ये नखमण्डली । अत्र 'इम्' इति द्वितीयान्तम् । ७ प्रत्यूह+शल+भस-प्रत्यूह-शलभस-विघ्न-हिंसयोः भर्सनकारी। प्लोषेत् इति क्रियापदम् । ९ ईप्रदीपांकुराय ! संबोधनैकवचनम् । १० तव इति।]
व्याख्या-'ईच् गतौ' [१२५२] अयनं ई ज्ञानम् तेन प्रदीपायते प्रदीप इवाचरतीति क्विपि प्रेदीपाः । तथा अनुस्वारशब्दवाच्यं परं ब्रह्म, तस्य कुः स्थानं शिवरूपं यः तस्य । 'रांक दाने' [१०६९] "आदानेऽपि" केचिदिति राति अङ्गीकरोति "तन्व्यधीण" [५। १ । ६४] इति णे "आत ऐ:०"[४ । ३ । ५३] इति वृद्धौ रायः तस्य सम्बो० हे ईप्रदीपांकुराय ! हे जिन ! त्वं नः अस्माकं 'षिधू शास्त्र-माङ्गल्ययोः' [३२१] इति सेधनं सिद्धिर्माङ्गल्यं तस्यै भव इति क्रिया
१-'ईप्रदीपाः इति युक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org