________________
१८
"
उकारः अकारयुक्तः र्-रकारश्च यस्य स ईवर् पश्चाद् विशेषणसमासे सिद्धयेव । एतावता सिधुर इति सिद्धम् । ईदृशो यो मां शब्दाऽग्निसंयोगयो:' [४] इति धातोः “घ्राध्मा-पा० " [ ५ । १ । ५८ ] इति शे श्रौति - कृवु-धिवु० " [४ । २ | १०८ ] इति धमादेशे धमो वाचकस्तं असति आदत्ते क्विपि सिद्धयेवर्धमाः न् नकारो यस्य एतावता सिन्धुरो गजस्तेन लाञ्छनभूतेन असति शोभते क्विपि सिद्धयेवर्धमानः तस्य सम्बो० हे सिद्धयेवर्धमानः ! हे अजित ! हे ताssत्त ! तया चतुस्त्रिंशदतिशय लक्ष्म्याऽङ्गीकृत ! खं ज्ञानं तदेव मण्डनं मण्डो भूषा यस्य तस्य सम्बो० हे खमण्ड ! अहं ते तुभ्यं 'लीच् श्लेषणे' [१२४८ ] इति . क्विपि लीः आश्रयन् न अम्लायम् न म्लानोऽभवम् इत्यर्थः । तुभ्यं किं० प्रति प्रतिकूलम् ऊहन्ते अचि प्रत्यूहा मिथ्यादृशस्त एव शलभाः पतङ्गास्तेषां प्लोषे विनाशे दीप्रदीपाङ्कुराय दीप्यमानदीपसदृशाय ॥ १८ ॥
"
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोपे दीमदीपाङ्कयते ॥ १९ ॥
Jain Education International
[ सिद्धये वेर्धमा नैः स्तात् ताम्राः यं नखम् अण् डॅली: । प्रत्यूंह ! शलभ "प्लोवेदी प्रदीपां कुरायते
॥१९॥ ]
[१ व+ऋध+माः=वर्धमाः - वकारयुक्तः इत्यर्थः -- प्रथमैकवचनम् । २ नः अस्माकम् । ३ ताम्र + अस्= ताम्राः - ताम्रास् -- इत्यस्य प्रथमैकवचनम् । ४ यम् द्वितीयैकवचनम् - यं प्रति इत्यर्थः । ५ नखम्-प्रथमेकवचनम् - 'म्' वर्णयुक्त इत्यर्थः । ६ अणु - सर्वज्ञः- प्रथमैकवचनम् । ७ डली :देशनाध्वनियुक्तः - प्रथमैकवचनम् । ८ प्रति 'यम्' इति पदेन संबद्धम् । ९ ऊह ! ऊ+ ह - हिंसात्यागी -- इत्यस्य संबोधनम् । १० शलभः शकार भकारयुक्तः प्रथमैकवचनम् । दशम-प्रथम-पञ्चमटिप्पणोक्त प्रकारेण 'शंभवः' इत्यर्थो लभ्यते । ११ प्र+ऊष+इ+दी=प्रोषेदी=प्लोषेदी-कामक्षयकारी । १२ षष्ठीबहुवचनम् । १३ कुः प्रथमेकवचनम् । १४ आयते 'अय्’धातोः आङ्युक्तस्य तृतीयपुरुषैकवचनम् ]
१४
व्याख्या- ' अव रक्षण ० ' [ ४८९ ] इति हिंसार्थाद् अबू “भ्यादिभ्यो वा " [ ५ । ३ । ११५] इति क्विपि ऊहिंसा तां 'ओहांकू त्यागे' [११३१] जहाति त्यजति सर्वाभयदत्वात् इति " आतो डः ०" [ ५ । १ । ७६ ] इति डे ऊहस्तस्य सम्बो० हे ऊह ! त्वं नः अस्माकं 'षिधौ शास्त्र - माङ्गल्ययोः ' [३२१] इति सिद्धये माङ्गल्यकृते स्ताद् भव इति क्रिया- कारकसम्बन्धः । सामान्याभिधाने विशेषमाहत्वं किं० शकारं 'लांक आदानं (ने) ' [ १०६८] लाति “आतो ड: ०" [५ । १ । ७६ ] इति डे शलो भो भकारो यस्य नाम्नि स शलभः । चित्रत्वाद् विसर्गलोपः । पुनः
For Private & Personal Use Only
www.jainelibrary.org