________________
१७
[११३७] इति धातोः किं० भं भकारं प्लवते षं षकारं 'इण्क् गतौ'
:
व्याख्या - ई लक्ष्मीस्तां प्राति पूरयति भक्तानामिति " आतो डोऽह्वा०" [५ | १ | ७६ | इति डे हे ई ! तथा प्रत्यूहाः प्रतिकूलास्तान् श्यति व्यपनयति इति " आतो डो० " [ ५ । १ । ७६ ] इति डे प्रत्यूहश: । "ल इन्द्रे चेलनेऽपि च” [ ] इत्येकाक्षरवचनात् लो गमनं यस्य तस्य सम्बो० हे प्रत्यूहशल ! वा एवार्थे त्वं नः अस्माकं सिद्धये मुक्तये स्ताद् भवतादेवेत्यर्थः । सामान्याभिधाने नामादिविशेषमाह - त्वं किं० ऋकारं दधाति "आतो डो०" [ ५ । १ । ७६ ] इति डे ऋधः । ऋकारयुक्तः 'माङ्क् मान - शब्दयोः ' शब्दार्थात् क्विपि मा वाचको यस्य स ऋधमाः । पुनः गच्छति विचि भलौः गमनस्याद्यग्रयोः सम्भवाद् गताग्रमकारं [१०७५ ] एति गच्छति क्विपि " ह्रस्वस्य ०" [४ । ४ । ११३ ] इति तागमे भप्लोषेत् एतावता ऋषभः ऋषभाभिध इत्यर्थः । पुनः किं० ता लक्ष्मीः अर्थात् केवलज्ञानरूपा तया न म्लायति शतरि ताऽम्लायन् कैवल्यलक्ष्मीनिर्मल इत्यर्थः । पुनः किं० खानि इन्द्रियाणि चक्षुरादीनि तद्ग्राह्याः शब्द-रूपादयोऽपि खानि, तेषां मण्डलं समूहो विद्यते यस्य सखमण्डली, पश्चान्नञ्योगे अखमण्डली जितेन्द्रिय-विषय इत्यर्थः । पुनः किं० कुः स्थानम् कासाम् ? दीपां कान्तीनाम् - "आयतिः प्रभावोत्तर - कालयोः” [ हैम० अ० त्रिस्वर० श्लो ०८४६] इत्यनेकार्थवचनात् - आयतेः प्रभावस्य च ॥ १७॥ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते || १८ ||
[ सिर्द्धयेवर्धमानस् ! तात्ताऽम्लीयं नं खमण्ड ! 'लीः । प्रत्यूहशलभप्लोषे दीमदीपाङ्कुराय ते ॥ १८ ॥ ]
[१ सिध् + धय = सिद्धय - 'सिधू' शब्दधारकः । २ उ+अ+र्=वर् । ई+वर्= ईवर् +धम+अस्=ईवर्धमास्+न्+अस् - ईवर्धमानस् ( अत्र 'वर्धमास् + न्' इत्यवस्थायां सः रुत्वे “अवर्णभो० " [१ । ३ । २२] इति सूत्रेण तस्य लोपो विधेयः) ततः सिद्धय + ई + वर्धमानस्= सिद्धयेवर्धमानस् इति संबोधनैकवचनम् सिन्धुरराजित ! इत्यर्थः । ३ ताssत्त 1 संबोधनैकवचनम् । ४ अम्लायम्-ह्यस्तन्याः अस्मत्पुरुषैकवचनं क्रियापदम् । ५ न - निषेधवाची । ६ ख + मण्ड = खमण्ड ! । ७ लीः आश्रयधारकः प्रथमैकवचनम् । ८ ते तुभ्यम् ।]
व्याख्या - सिधू इति वर्णद्वयम् । 'चिंत् धारणे' [ १३३०] इति धातोः धियँति धत्ते इत्यचि गुणेऽयादेशे सिद्धयः । तथा ‘ईङ्च् गतौ' [१२५२] क्विपि ईर्गच्छन्
१ " लकारः चलने पुनः " - एकाक्षर० सुधा० श्लो० ३८ । २ सिधं धियति इति सिद्धयः अर्थात् 'सि' वर्णधारकः ।
३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org