________________
१६
किम्भूतः ? ताम्रस्योपलक्षणत्वात् सुवर्णाद्यपि ताम्रं तेन 'असी गत्यादानयोश्च' [४३२] इति 'असति'धातोर्दीप्यर्थाद् असति शोभते क्विपि ताम्राः । पुनः किम्भू० ? अन्नं धान्यं तेन खं मुखं 'गुणशब्दा गुणिन्यपि वर्तन्ते' इति मुखचन्मण्डलं देशो विद्यते यस्य स “अतोऽनेकस्वरात्" [ ७|२|६ ] इति इनि अन्नखमण्डली । पुनः किं० ? प्रतिपूर्वादवतेहिंसाऽर्थात् कर्तरि क्विपि वस्य ऊटि प्रत्यूः पापी तमेव घ्नन्ति क्विपि प्रत्यूहनो र लयोरैक्यात् शला बाणा यस्य स प्रे०लः । तथा भैर्नक्षत्रैरुपलक्षितः प्रकृष्टो य उषायां रात्रौ एति गच्छति क्विपि " ह्रस्वस्य ० " [४|४|११३] इति तागमे उषेत् चन्द्रस्तद्वदाह्लादका ईं लक्ष्मीं प्रददति “उपसर्गादातो ड: ०" [५/१/५६ ] इति है ईप्रदा दातारो विद्यन्ते यस्य स " अतोऽनेक ०" [ ७२६] इति इनि भप्लोषे दीप्रदी पश्चाद् विशेषणसमासे प्रत्यूहशलभप्लोषेदीप्रदी किं० 'पस्तु पातरि पवने' इत्येकाक्षर - वचनात् पो वायुस्तेन युतं यदङ्कुरं जलं तद्वदसति भाति क्विपि पाङ्कुराः यथा वातलहरीमिश्रं जलं सुखकृत् तथाऽयमपि प्रणतनराणां सुखकृदित्यर्थः । किं० यता वशीकृताई पृथ्वी येन स यते अनित्यत्वात् कजभावे " गोश्चान्ते ०" [२।४।९६ ] इति हस्वे एकारः ॥ १६॥
अथ सकलमङ्गलावलीवल्लिपल्लवननवजलधरायमाणान् चतुर्विंशतिजिनान् स्वस्वनामाकर्षणपूर्वं वर्णयति - तथाहि-
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ॥ १७॥
[सिद्धये वैधमा नैः स्तात् ताम्रायन्नैखमण्डली | प्रेत्यूहशल ! भैप्लोषेदी! दीप कुरायतेः " ॥१७]
[१ वा+ऋधमा नः = वर्धमा नः । अत्र 'वा' निश्चयसूचकम् अव्ययम् । ऋधमाः' इति प्रथमैकवचनम् । ऋकारयुक्तः इत्यर्थः । २ 'नः' इति षष्ठीबहुवचनम् । ३ ता + अम्लायन् ताऽम्लायन् = ताम्रायन् प्रथमैकवचनम् ४ अ+ख+मण्डली=अखमण्डली इति प्रथमैकवचनम् । अत्र 'अ' निषेधसूचकः । यन्+अख॰ अत्र “ह्रस्वात् ङ णनो द्वे” [१।३।२७। ] इति द्वित्वे यन्नख० इति । ५ प्रत्यूह+श= प्रत्यूहश + ल= प्रत्यूहशल ! संबोधनैकवचनम् । ६ भ+प्लो+ष+इत्=भप्लोषेत्-भकार - षकारयुक्त इत्यर्थः । 'ऋधमा' पदेन ऋकारयुक्तः अनेन च पदेन भकार - षकारयुक्तः अर्थात् 'ऋषभः ' इत्यर्थः । ७ •षेत्+ईप्र=प्लोषेदीप्र ! 'ई' इति संबोधनैकवचनम् । ८ षष्ठीबहुवचम् । ९ कुः आयतेः इति विभागः | १० षष्ठयन्तम् ]
१ 'प्रत्यूहशल:' इति संपूर्ण पदम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org