________________
१५
प्रतिपूर्वाद् अवतेहिंसार्थान् “भ्यादिभ्यो” वा [ ५ | ३ | ११५ ] इति' प्रत्यू: हिंसा तस्या ऊहं वितर्कमपि 'शट रुजा ० ' [१७५]इति रुजार्थात् शटेः शटति रुजति पीडयतीति क्विप “धुटस्तृतीयः” [२|१|७६ ] इति टस्य डत्वे ड-लयोरैक्याल्लत्वे प्रत्यूहशल् । पुनः किं ? आत् विष्णोर्भवती ते "क्वचित्” । [५१|१|७१] डे अभः कामस्तं प्लोषति "कर्मणः ०" [५१/७२ । ] अणि अभप्लोषी कामविनाशिका 'इण्क् गतौ' [अदादिग० १७ ] इति भावे क्विपि इत् ज्ञानं यस्य स अभप्लोषेत् । पुनः किं ? कुं पृथ्वीं राति ददाति कुराः पृथ्वीदाता । केषाम् ? ई लक्ष्मीं प्रदीपयन्ति सप्तक्षेत्री निवेशनेन इति कर्तरि क्विपि ईप्रदीपस्तेषाम् ईप्रदीपा धनिनाम् - श्राद्धानाम् ॥ १५ ॥
अथ तस्यैव विभोर्भ्रातरं नन्दिवर्धनाख्यं भूपं वर्णयतिसिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीमदीपाङ्कुरायते ॥ १६ ॥
[ सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली | प्रत्यूहशलभैग्लोषेदीमदी कुरा यँतेः ॥ १६ ॥ |]
[१ वर्धमा+न=वर्धमानः । एतत् पदम् प्रथमैकवचनम् 'नन्दिवर्धन' नामसूचकम् । २ ताम्र + अस्=ताम्राः+अन्न० अत्र “ रोर्यः” [१।३।२६] इति सूत्रेण रोः यत्वे ताम्रायन्न० इति । अत्र ताम्राः इति प्रथमैकवचनम् । ३ अन्न +ख + मण्डल ० ततः यन्नखमण्डली । प्रथमैकवचनम् । ४ प्रति + ऊ = प्रत्यू +हन्=प्रत्यूहन्+शरः= प्रत्यूहशरः प्रत्यूहशलः प्रथमैकवचनम् । ५ भ + प्र + उषा + इत् =भप्रोषेत्=भप्लोषेत् +ई+प्रदी=भप्लोषेदीप्रदी प्रथमैकवचनम् । ६ प + अङ्कुर+अस्= पाङ्कुराः प्रथमैकवचनम् । “पः पाने पवने पथि " - एकाक्षर० सुधा० श्लो० ३१ । ७ यता+ई=यते=यतेः प्रथमैकवचनम् । ]
व्याख्या–‘वर्ध' इत्यक्षरसमुदायम् | 'मीण मतौ' [३७७ चुरादिगतयुजादि ] “गतौ" अपि " अन्ये । णिचि मायति य आश्रयति किपि णिज्लोपे “वोः वय्०" [४|४|१२१] इति यस्य लोपे वर्धमा वर्धशब्दमाश्रितो यो नो नकारो नाम्नि यस्य स वर्धमानः एतावता वर्धनः “ते लुग् वा” [३।२।१०८] इति पूर्वपदलोपाद वर्धनो नन्दिवर्धनो नाम राजा सिद्धये सेवकानां कार्यनिष्पत्तये स्ताद् भवत्विति सम्बन्धः ।
तथा
१ इति' क्विप्' प्रत्यये । २ 'कर्मणः अणू' इति सूत्रेण अभप्लोषः इत्येव स्यात् नहि अभप्लोषी 'अभmोषी' इति पदम् अत्र न साधकम् किन्तु 'अभप्लोष' इत्येव पदं साधकम् तेनैव 'अभप्लोषेत्' इति सिध्यति । ३ गौतमस्य विशेषणत्वेन कामविनाशकः इति उचितम् । ४ “मी गत" [ २८३ चुरादिः ] माधवीयधातुवृत्तौ पृ० ३९५ । ५ एतावता प्रकारेण 'वर्धनपदस्य निष्पत्तिः इति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org