________________
मण्डो भूषा तं लीयसे श्लिष्यसि इति क्विपि खमण्डलीः । पुनः किम् ? 'निइन्धैप् दीप्तौ' [१४९८] इति धातोः क्विपि इत् देदीप्यमाना । कुतः ? आर्विस्तारात् । कासाम् ? प्रदीपनं प्रदीपः "क्रुत्सम्पदादिभ्यः०" [५।३।११४] इति क्विपि आमि प्रदीपां कान्तीनां प्रदीपाम् आयतेः । किम्भूतायाः ? प्रत्यूहान् विघ्नान् श्यति प्रत्यूहशः जिनः, तस्य लभां प्राप्तिं करोतीति णिजि, क्विपि प्रत्यूहशलप् तस्याः प्रत्यूहशलभः । पुनः किम् ? त्वं ई इव लक्ष्मीरिव जगत्सुखहेतुत्वात् । पुनः किम् ? कुत्सितो निःश्रीको रः कामो यस्याः सकाशात् कुरा ॥१४॥
अथ तस्यैव विभोः प्रथमगणधरं श्रीगौतम वर्णयति-तथासिद्धये वर्धमानः स्तात् ताम्रा यन्न ! खमण्डली । प्रत्यूहशलभप्लोषे दीपदीपाङ्कुरायते ॥१५॥ [सिद्धये वर्धमानेस्ताऽऽत्ताऽऽम्राः बन्न ! खमण्डली । प्रत्यूहशलभप्लोषेदीप्रदीपां कुराः यते ! ॥१५॥]
[१ वर्धमानस्त! 'हे गौतम!' इत्येवम् अध्याहृतसंबोधनस्य विशेषणम् । २ आत्ताम्राः-आत्त+आम्र+ अस आत्ताम्राः गौतमस्य विशेषणं प्रथमैकवचनम्। ३ यन्न !-ई+अन्न-यन्न ! पूर्ववत् संबोधनरूपं विशेषणम् । ४ ख+मण्डल+इन् खमण्डली 'आत्ताम्राः' इत्यस्य विशेषणम् । ५ प्रत्यहशलभप्लोषेत्प्रत्यू+ऊह+शल+अभ+प्लोष+इत्-प्रत्यूहशलभप्लोषेत्। ०प्लोषेत्+ईप्रदीपाम्-प्लोषेदीप्रदीपाम् अत्र प्रत्यूहशलभप्लोषेत् इति प्रथमान्तम् एकवचनम् । ईप्रदीपाम् षष्ठीबहुवचनम् । ६ कुराः प्रथमैकवचनम् 'कुरास्' इत्यस्य । ७ संबोधनैकवचनम् । ]
व्याख्या-वर्धमानं वीरजिनं स्वगुरुतया स्तौतीति "क्वचित्" [५।१।१७१] डे डित्यन्त्यस्वरादिलोपे वर्धमानस्तः तस्य सम्बो० हे वर्धमानस्त ! गौतम ! हे यते ! जितेन्द्रिय ! त्वं सिद्धये उपलक्षणत्वादष्टमहासिद्धयस्ताभ्यः स्तादिति क्रिया गृह्यते । त्वं किम् ? आत्तोऽङ्गीकृतो यः आम्रः सहकारवृक्षस्तद्वद् अससि शोभसे क्विपि
आत्ताम्राः । यथा श्रितः आम्रस्तापापनोदको भवति तथा त्वमपीत्यर्थः । पुनः किम् ? " आ विधातरि मन्मथे" [ ]इत्यनेकार्थवचनात् आ ब्रह्मा तस्यापत्यं स्त्री अणि "अवर्णेवर्णस्य" [७।४।६८] इति आलोपे ङीप्रत्यये ई सरस्वती तस्या अन्नमिवान्नं जीवनभूतस्तस्य सम्बो० हे अन्न ! खं ज्ञानम् केवलज्ञानं तदेव मण्डलं कटक-वलयाद्याभरणविशेषो यस्य स अन्नखमण्डली “अतोऽनेकस्वरात्" [१७।२।६]इन् । पुनः किं ?
१ याविस्तारात् इति उचितम्-प्लोष+इत्+ई-प्लोषेदी इत्यस्य साधनाय । २ षष्ठीबहुवचने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org