________________
'१३
म्लायति अतत्परीभवति क्विपि मानस्तात्ताम्लाः । पुनः किं ? ई श्रीः अन्न धान्यम् ताभ्यां खमिव खं स्वर्गतुल्यं मण्डलं देशो विद्यते यस्य स यन्नखमण्डली “अतोऽनेकस्वरात्'[७।२।६]इति इन् । पुनः किं ०? “अङ्कुरं सलिले. रोम्णि"[ ]इत्यनेकार्थवचनाद् अङ्कुरै रोमोद्गमैंः असति शोभते क्विपि अङकुराः सरोमाञ्चः-सहर्ष इत्यर्थः । कस्मिन् ? यते व्रते संयमे इत्यर्थः, आसन्नसिद्धिकत्वाच्चारित्राभिलाषीत्यर्थः । यते किं०? "यस्तु मातरिश्वनि" [ ] इत्येकाक्षरवचनात् य इव यो वातस्तस्मिन् ये वातसमाने इत्यर्थः। कस्मिन् ? प्रत्यूहा विघ्नास्त एव “शरं जले"[ ]इत्यनेकार्थवचनात् र-लयोरैक्यात् शरैर्जलैर्भान्तीति"क्वचित्" [५।१।१७१] डे शलभा मेघास्तेषां प्लोषे विनाशे ॥१३॥
अथ तस्यैव विभोः सवित्री त्रिशलां वर्णयति-- तथासिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली। प्रत्यूहशलभप्लोष दीप्रदीपाङ्कुरायते ॥१४॥ [सिद्धये वर्धमानस्ताऽत्ता म्लायं नः खमण्डलीः ।
प्रत्यहशलभः 'प्लोषेदीप्रदीप कुराऽऽयतेः ॥१४॥ [१ सिद्धये ! श्री त्रिशलामातुः संबोधनैकवचनम् । २ वर्धमानस्ता+अत्ता+म्लायम् । वर्धमानस्ता इति 'वर्धमानस्तन्' शब्दस्य प्रथमैकवचनम् श्रीत्रिशलामातुः विशेषणम् । ३ अत्ता तथैव । ४ म्लायं द्वितीयैकवचनम् 'प्लोष' इति क्रियायाः कर्म। ५ नः षष्ठीबहुवचनम्। ६ ख+मण्ड+ ली-ई:-खमण्डलीःप्रथमैकवचनम् श्रीत्रिशलामातुः विशेषणम् । ७ प्रत्यूहश+लभ प्रत्यूहशलभः श्रीत्रिशलामातुः विशेषणम् षष्ठया एकवचनम्। ८ प्लोष-इत्-ई-प्लोषेदी । अत्र प्लोष इति द्वितीयपुरुषैकवचनम् पञ्चम्याः क्रियापदम् इत् प्रथमैकवचनम् ई विस्तारसूचकम् ९ प्रदीपाम् षष्टीबहुवचनम् । १० कुरा प्रथमैकवचनम् ।]
व्याख्या-सिद्धं सिद्धार्थनृपं याति गच्छति भजते इत्यर्थः । 'आतो डः० "[५।१।७६] इति डे सिद्धया त्रिशला तस्याः सम्बो० हे सिद्धये ! त्रिशले ! त्वं नखेत्यत्र चित्रत्वाद् विसर्गलोपे नोऽस्माकं म्लानमिति"भावाकों: घञ्" [५।३।१८] इति घञि म्लायो म्लानिस्तं प्लोष भस्मीकुरु इत्यर्थः । त्वं किं ? वर्धमानजिनं चरमतीर्थकरं स्वपुत्रतया स्तनति वक्ति क्विपि सौ “नि दीर्ध:"[१।४।८५]इति दीर्घ वर्धमानस्ता । त्वं किम् ? अत्ता इव अत्ता मातृसदृशी अर्थाज्जगताम्- जगद्बन्धोः श्रीवीरस्य माता-जगन्मातैव । 'अत्ता' शब्दो मातृपर्यायो लक्षणबृहवृत्तौ, “नित्यदिद-द्विस्वरा०"[११४।४३] इति अम्बार्थोदाहरणे दर्शितत्वात् । पुनः किं ? खं मुखम् तेन यो
१. “यस्तु वाते यमेऽपि च" एकाक्षर सुधा० श्लोक ३५ । २ सूत्रं तु "भावाऽकोंः " इत्येव, परंतु लिखितपुस्तिकायां यथा लिखितं तथा अत्र स्वीकृतम् । ३ लक्षणबृहद्वृत्तौ-सूत्रबृहवृत्तौ । ४ इति सूत्रे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org