________________
वर्णत्वात् ताम्रो रक्तवर्णस्तद्वद् अससि शोभसे क्विपि ताम्राः यत्कारणात् 'संघाते कुठभेदे च' [है० अने० श्लो० १२७५] इत्यनेकार्थवचनात् मण्डलं कुष्ठम् तद् विद्यते यस्य स मण्डली नखं यावन्मण्डली.नखमण्डली कुष्टवानपि जनस्ते तुभ्यम् ऊहमूहं प्रति प्रत्यूहं निरन्तरम् । 'शट रुजा विशरण - गत्यवसादनेषु' [ १७५] इति गत्यर्थात् शटिधातोः शटति आश्रयतीति क्विपि "घुटस्तृतीयः " [ २|१|७६] इति डबे, ड-लयोरैक्याल्लत्वे प्रत्यूहशल नित्यं समाश्रयन् मण्डलीति ईकारप्रश्लेषात् ईं लक्ष्मीं शोभाम् - इत्यर्थः - अषेत् प्राप्नुयात् । ईम् किम्भूताम् ? ई पृथ्वी तां प्राति पूरयति “ क्वचित्” [५।१।१७१] डे ईप्रः भुवि प्रसरन् । दीपनं घञि दीपः कान्तिर्यस्याः सा ईप्रदीपा तां भूमिविस्तारकान्तिमतीमित्यर्थः । ते कथम्भूताय ? कुत्सितो निष्प्रभावत्वान्निःश्रीको रः कामो यस्मात् स कुरस्तस्मै कुराय | जनः किं० न विद्यते भा शोभा येषां ते अभा मूर्खास्तेषु विषये 'प्लुषश् स्नेहन-सेचन-पूरणेषु'[१५६२] इति स्नेहार्थात् लुषः " क्वचित्" [ ५।१।१७१] डे अभप्लोऽपि मूर्खप्रियोऽपि । अपिः अध्याह्रियते ॥ १२॥
१२
इति द्वादशार्थ्या श्रीवर्धमानं जिनं वर्णयित्वा तस्यैव जगद्गुरोर्जनकं सिद्धार्थनृपं
वर्णयति ।
तथाहि
सिद्धये वर्धमानः स्तात् ताम्रा यन्नखमण्डली । प्रत्यूहशलभप्लोषे दीप्रदीपाङ्कुरायते ॥ १३ ॥
[ सिद्ध ! ये' वर्धमानस्तात्ताम्ला चैन्नखमण्डलो । प्रत्यूशलभप्लोषे दीमदीप ! अङ्कुरा येते || १३ || ]
[१ 'य' पदस्य सप्तम्या एकवचनम् | २ द्वितीयपुरुषैकवचनम् पञ्चम्याः क्रियापदम् । ३ मानस्ता+अत्ता+म्लाः प्रथमैकवचनम् । ४ ई+अन्न = यन्न + ख + मण्डल - ततः मत्वर्थीयः इन् । ५ अङ्कुराः प्रथमैकवचनम् । ६ 'यत' पदस्य सप्तम्या एकवचनम् । ]
Jain Education International
व्याख्या - हे सिद्ध ! 'स्याद् भीमो भीमसेनः' इतिवत् “ते लुग् वा” [३।२।१०८] इत्युत्तरपदलोपात् हे सिद्धार्थनृप ! | दीप्रः केवलश्रिया दीप्यमानो दीप इव त्रिभुवनभवनप्रकाशकत्वाद् दीपः श्रीवीरजिनः पुत्रतया यस्य स दीप्रदीपस्तस्य सम्बो. हे दीप्रदीप ! त्वम् । ‘वृधूङ् वृद्धौ ' [ ९५७ ] इति धातोरात्मनेपदस्यानित्यत्वात् पञ्चम्या हौ वर्ध धन-धान्यादिना कीर्ति-महिमाssदिना च वर्धमानो भव । त्वं किम्भूतः ? मनस्ता मनोलक्ष्मीः मनःकर्म वा, तत्र भवा भवार्थेऽणि मानस्ती- मानसीया । 'अड्डि हिंसाऽतिक्रमयोः ' [६७४ ] इति धातोः क्विपि अत्, भावे तलि अत्ता हिंसा तस्याः कारणविषये
For Private & Personal Use Only
www.jainelibrary.org